अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽअ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य᳕स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽउक्तिं विधेम ॥३६॥
अग्ने॑। नय॑। सु॒पथेति॑ सु॒ऽपथा॑। रा॒ये। अ॒स्मान्। विश्वा॑नि। दे॒व॒। व॒युना॑नि। वि॒द्वान्। यु॒यो॒धि। अ॒स्मत्। जु॒हु॒रा॒णम्। एनः॑। भूयि॑ष्ठाम्। ते॒। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। वि॒धे॒म॒ ॥३६॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर ईश्वरप्रार्थना किसलिये करनी चाहिये, इस विषय का उपदेश अगले मन्त्र किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरीश्वरः किमर्थः प्रार्थनीय इत्युपदिश्यते ॥
(अग्ने) सर्वनेतः परमात्मन् ! (नय) प्रापय (सुपथा) यथा सुकृतः शोभनेन धर्म्यमार्गेण गच्छन्ति तथा (राये) परमश्रीमोक्षसुखप्राप्तये (अस्मान्) अभ्युदयनिःश्रेयससुखस्पृहावतः (विश्वानि) सर्वाणि (देव) सर्वानन्दप्रापक सर्वजगत्प्रकाशक ! (वयुनानि) प्रशस्तानि कर्माणि प्रज्ञाश्च। वयुनमिति प्रशस्यनामसु पठितम्। (निघं०३.९) वयुनं वेतेः कान्तिर्वा प्रज्ञा वा। (निरु०५.१४) वयुनानि विद्वान् प्रज्ञानानि प्रजानन्। (निरु०८.२०) (विद्वान्) यः सर्वं वेत्ति सः (युयोधि) दूरीकुरु। अत्र बहुलं छन्दसि। [अष्टा०२.४.७३] इति शपः श्लुः। (अस्मत्) अस्माकं सकाशात् (जुहुराणम्) कुटिलम् (एनः) दुःखफलं पापम् (भूयिष्ठाम्) बहुतमाम् (ते) तव (नम उक्तिम्) यथा नमोभिरुक्तिं विदधति तथा (विधेम) वदेम। अयं मन्त्रः (शत०३.६.३.११) व्याख्यातः ॥३६॥