ध्रु॒वासि॑ ध्रु॒वो᳕ऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात्। घृ॒तेन॑ द्यावापृथिवी पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छा॒या ॥२८॥
ध्रु॒वा। अ॒सि॒। ध्रु॒वः। अ॒यम्। यज॑मानः। अ॒स्मिन्। आ॒यत॑न॒ इत्या॒ऽयत॑ने। प्र॒जयेति॑ प्र॒ऽजया॑। प॒शुभि॒रिति॑ प॒शुऽभिः॑। भू॒या॒त्। घृ॒तेन॑। द्या॒वा॒पृ॒थि॒वी॒ऽइति॑ द्यावापृथिवी। पू॒र्ये॒था॒म्। इन्द्र॑स्य। छ॒दिः। अ॒सि॒। वि॒श्व॒ज॒नस्येति॑ विश्वऽज॒नस्य॑। छा॒या ॥२८॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उस यज्ञ से क्या होता है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तेन किं भविष्यतीत्युपदिश्यते ॥
(ध्रुवा) निश्चला (असि) भवसि (ध्रुवः) निश्चलः (अयम्) वक्ष्यमाणः (यजमानः) यज्ञकर्त्ता (अस्मिन्) वर्त्तमाने यज्ञे (आयतने) आयन्ति आगच्छन्ति प्राणिनो यस्मिंस्तज्जगत् तस्मिन् जगति स्थाने यज्ञे वा (प्रजया) राज्येन सन्तानसमूहेन वा (पशुभिः) हस्त्यश्वगवादिभिः (भूयात्) (घृतेन) आज्यादिना (द्यावापृथिवी) आकाशभूमी (पूर्येथाम्) (इन्द्रस्य) परमैश्वर्यस्य (छदिः) दुःखापवारकत्वेन प्रापकः प्रापिका वा (असि) भवसि (विश्वजनस्य) विश्वस्मिन् जगति सर्वस्य जनसमूहस्य (छाया) दुःखछेदकाश्रयो वा। अयं मन्त्रः (शत०३.६.१.१९-२२) व्याख्यातः ॥२८॥