अ॒ग्नेर्ज॒नित्र॑मसि॒ वृष॑णौ स्थऽउ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ऽअसि। गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा मन्थामि॒ जाग॑तेन त्वा॒ छन्द॑सा मन्थामि ॥२॥
अ॒ग्नेः। ज॒नित्र॑म्। अ॒सि॒। वृष॑णौ। स्थः॒। उ॒र्वशी॑। अ॒सि॒। आ॒युः। अ॒सि॒। पु॒रू॒रवाः॑। अ॒सि॒। गा॒य॒त्रेण॑। त्वा॒। छन्द॑सा। म॒न्था॒मि॒। त्रैष्टु॑भेन। त्वा॒। छन्द॑सा। म॒न्था॒मि॒। जाग॑तेन। त्वा॒। छन्द॑सा। म॒न्था॒मि॒ ॥२॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह यज्ञ कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स यज्ञः कीदृश इत्युपदिश्यते ॥
(अग्नेः) आग्नेयास्त्रादेः सिद्धिकरस्य पावकस्य (जनित्रम्) जनकं हविः (असि) भवति। अत्र सर्वत्र व्यत्ययः। (वृषणौ) वर्षयितारौ (स्थः) भवतः (उर्वशी) ययोरूणि बहूनि सुखान्यश्नुवते सा यज्ञक्रिया। उर्वशीति पदनामसु पठितम्। (निघं०५.५) उर्विति बहुनामसु पठितम्। (निघं०३.१) तस्मिन्नुपपदे अशूङ् धातोः सम्पदादिभ्यः क्विप्। [अष्टा०वा०३.३.९४] ततः शार्ङ्रवाद्यन्तर्गन्तत्वान्ङीन्। (असि) भवति (आयुः) एति जीवनं येन तत् (असि) वर्त्तते (पुरूरवाः) पुरूणि बहूनि शास्त्राण्युपदिशति येनाध्ययनाध्यापनेन यज्ञेन सः। पुरूरवा इति पदनामसु पठितम्। (निघं०५.४) पुरूरवाः। (उणा०४.२३२) अयमनेन पुरूपपदाद् रुधातोरसिप्रत्ययान्तेन निपातितः। (असि) भवति (गायत्रेण) गायत्री प्रगाथोऽस्य तेन (त्वा) तमग्निम् (छन्दसा) चन्दन्त्यानन्दन्ति येन तेन (मन्थामि) विलोडनादिक्रियया निष्पादयामि (त्रैष्टुभेन) त्रिष्टुप् प्रगाथोऽस्य तेन (त्वा) तं सोमाद्योषधीसमूहम् (छन्दसा) सुखकारकेण (मन्थामि) (जागतेन) जगती प्रगाथोऽस्य तेन (त्वा) तं सामग्रीसमूहं शत्रुदुःखसमूहं वा (छन्दसा) सुखसम्पादकेन (मन्थामि) विलोड्य निवारयामि। अयं मन्त्रः (शत०३.४.२०-२३) व्याख्यातः ॥२॥