विष्णो॒र्नु कं॑ वी॒र्या᳖णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑सि। योऽअस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा ॥१८॥
विष्णोः॑। नु। क॒म्। वी॒र्या᳖णि। प्र। वो॒च॒म्। यः। पार्थि॑वानि। वि॒म॒मऽइति॑ विऽम॒मे। रजा॑सि। यः। अस्क॑भायत्। उत्त॑रमित्युत्ऽत॑रम्। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। वि॒च॒क्र॒मा॒ण इति॑ विऽचक्रमा॒णः। त्रे॒धा। उ॒रु॒गा॒यऽइत्यु॑रुऽगा॒यः। विष्ण॑वे। त्वा ॥१८॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में व्यापक ईश्वर के गुणों का उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ व्यापकेश्वरगुणा उपदिश्यन्ते ॥
(विष्णोः) व्यापकस्य परमेश्वरस्य (नु) शीघ्रम् (कम्) सुखस्वरूपम् (वीर्याणि) पराक्रमयुक्तानि कर्माणि (प्र) प्रकृष्टार्थे (वोचम्) कथयेयम् (यः) अनन्तपराक्रमः (पार्थिवानि) पृथिव्या विकारा अन्तरिक्षे विदितानि वा। अत्र तत्र विदित इति च। (अष्टा०५.१.४३) अनेनाञ् प्रत्ययः। (विममे) विविधतया मिमीते (रजांसि) लोकान्, लोका रजांस्युच्यन्ते। (निरु०४.१९) (यः) सर्वाधारः (अस्कभायत्) प्रतिबध्नाति (उत्तरम्) अन्तावयवम् (सधस्थम्) यत्सह तिष्ठति तत्कारणं सत्सङ्गृह्य (विचक्रमाणः) यथायोग्यं जगद्रचनाय कारणपादान् प्रक्षिपन् नियोजयन् (त्रेधा) त्रिःप्रकाराणि (उरुगायः) यो बहूनर्थान् वेदद्वारा गायत्युपदिशति सः (विष्णवे) व्यापनशीलाय यज्ञाय (त्वा) त्वाम्। अयं मन्त्रः (शत०३.५.३.२१) व्याख्यातः ॥१८॥