हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह जगदीश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स जगदीश्वरः कीदृश इत्युपदिश्यते ॥
(इदम्) प्रत्यक्षाप्रत्यक्षं जगत् (विष्णुः) यो वेवेष्टि व्याप्नोति चराचरं जगत् स जगदीश्वरः (वि) विविधार्थे (चक्रमे) क्रान्तवान् निक्षिप्तवान् क्राम्यति क्रमिष्यति वा। अत्र सामान्येऽर्थे लिट्। (त्रेधा) त्रिप्रकारम् (नि) नितराम् (दधे) हितवान् दधाति धास्यति वा (पदम्) पद्यते गम्यते यत्तत्। अत्र घञर्थे कविधानम् [अष्टा०भा०वा०३.३.५८] इति कः प्रत्ययः। (समूढम्) सम्यगुह्यतेऽनुमीयते शब्द्यते यत्तत् (अस्य) त्रिविधस्य जगतः (पांसुरे) पांसवो रेणवो रजांसि रमन्ते यस्मिन्नन्तरिक्षे तस्मिन् (स्वाहा) सुहुतं जुहोतीत्यर्थे। इमं मन्त्रं यास्कमुनिरेवं व्याख्यातवान्−यदिदं किं च तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः। समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः। समूढमस्य पांसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात्, समूढमस्य पांसुर इव पदं न दृश्यते इति पांसवः। पादैः सूयत इति वा, पन्नाः शेरत इति पांसवः, पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भवन्तीति वा। (निरु०१२.१९) अयं मन्त्रः (शत०३.५.१३) व्याख्यातः ॥१५॥