यु॒ञ्जते॒ मन॑ऽउ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृ॒ह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ऽइन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑ ॥१४॥
यु॒ञ्जते॑। मनः॑। उ॒त। यु॒ञ्ज॒ते॒। धियः॑। विप्राः॑। विप्र॑स्य। बृ॒ह॒तः। वि॒प॒श्चित॒ इति॑ विपः॒ऽचितः॑। वि। होत्राः॑। द॒धे॒। व॒यु॒ना॒वित्। व॒यु॒न॒विदिति॑ वयुन॒ऽवित्। एकः॑। इत्। म॒ही। दे॒वस्य॑। स॒वि॒तुः। परि॑ष्टुतिः। परि॑स्तुति॒रितिः॒। स्वाहा॑ ॥१४॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में योगी और ईश्वर के गुणों का उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ योगीश्वरगुणा उपदिश्यन्ते।
(युञ्जते) समादधते (मनः) चित्तम् (उत) अपि (युञ्जते) स्थिराः कुर्वते (धियः) बुद्धीः कर्माणि वा (विप्राः) मेधाविनः। विप्र इति मेधाविनामसु पठितम्। (निघं०३.१५) (विप्रस्य) अनन्तप्रज्ञाकर्मणो जगदीश्वरस्य। (बृहतः) व्यापकस्य वा (विपश्चितः) अनन्तविद्यस्य परमविद्यस्य परमविदुषो वा (वि) विविधार्थे (होत्राः) ये जुह्वत्याददति वा ते (दधे) धरे वृणोमि कथयामि वा (वयुनावित्) यो वयुनानि प्रशस्तानि कर्माणि वेत्ति सः। वयुनमिति प्रशस्यनामसु पठितम्। (निघं०३.८) अत्र अन्येषामपि दृश्यते [अष्टा०६.३.१३७] इति दीर्घः। (एकः) असहायः (इत्) एव (मही) महती (देवस्य) सर्वप्रकाशकस्य (सवितुः) सकलोत्पादकस्य (परिष्टुतिः) परितः सर्वतः स्तूयते यया सा (स्वाहा) सत्यां वाचम्। अयं मन्त्रः (शत०३.५.३.११-१२) व्याख्यातः ॥१४॥