उस्रा॒वेतं॑ धूर्षाहौ यु॒ज्येथा॑मन॒श्रूऽअवी॑रहणौ ब्रह्म॒चोद॑नौ। स्व॒स्ति यज॑मानस्य गृ॒हान् ग॑च्छतम् ॥३३॥
उस्रौ॑। आ। इ॒त॒म्। धू॒र्षा॒हौ॒। धूः॒स॒हा॒विति॑ धूःऽसहौ। यु॒ज्येथा॑म्। अ॒न॒श्रूऽइत्य॑न॒श्रू। अवी॑रहणौ। अवी॑रहनावित्यवी॑रऽहनौ। ब्र॒ह्म॒चोद॑ना॒विति॑ ब्रह्म॒ऽचोद॑नौ। स्व॒स्ति। यज॑मानस्य। गृ॒हान्। ग॒च्छ॒त॒म् ॥३३॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब सूर्य्य और विद्वान् कैसे हैं, और उनसे शिल्पविद्या के जाननेवाले क्या करें, सो अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सूर्य्यविद्वांसौ कथंभूतावेताभ्यां शिल्पविदौ किं कुर्य्यातामित्युपदिश्यते ॥
(उस्रौ) रश्मिमन्तौ निवासहेतू सूर्य्यवायू। उस्रा इति रश्मिनामसु पठितम्। (निघं०१.५) गोनामसु च। (निघं०२.११) (आ) समन्तात् (इतम्) प्राप्नुतः (धूर्षाहौ) यौ धुरं पृथिव्याः शरीरस्य ज्ञानानां वा धारणं सहेते तौ (युज्येथाम्) युज्येते युक्तौ कुरुतः (अनश्रू) अव्यापिनौ (अवीरहणौ) वीरहननरहितौ (ब्रह्मचोदनौ) आत्मान्नप्राप्तिप्रेरकौ (स्वस्ति) सुखं सुखेन वा (यजमानस्य) धार्मिकस्य जीवस्य (गृहान्) गृहाणि (गच्छतम्) गमयतः। अयं मन्त्रः (शत०३.३.४.१२) व्याख्यातः ॥३३॥