म॒हीनां॒ पयो॑ऽसि वर्चो॒दाऽअ॑सि॒ वर्चो॑ मे देहि। वृ॒त्रस्या॑सि क॒नीन॑कश्चक्षु॒र्दाऽअ॑सि॒ चक्षु॑र्मे देहि ॥३॥
म॒हीनाम्। पयः॑। अ॒सि॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। अ॒सि॒। वर्चः॑। मे॒। दे॒हि॒। वृ॒त्रस्य॑। अ॒सि॒। क॒नीन॑कः। च॒क्षु॒र्दा इति॑ चक्षुः॒दाः। अ॒सि॒। चक्षुः॑। मे॒। दे॒हि॒ ॥३॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर इस जलसमूह से उत्पन्न हुए मेघ का क्या निमित्त है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरस्य जलसमूहजन्यस्य मेघस्य किं निमित्तमस्तीत्युपदिश्यते ॥
(महीनाम्) पृथिवीनाम्, महीति पृथिवीनामसु पठितम्। (निघं०१.१) (पयः) रसनिमित्तम् (असि) अस्ति, अत्र सर्वत्र व्यत्ययः (वर्चोदाः) दीप्तिं ददातीति (असि) अस्ति (वर्चः) प्रकाशम् (मे) मह्यम् (देहि) ददाति (वृत्रस्य) मेघस्य (असि) अस्ति (कनीनकः) यः कनति दीपयतीति स एव कनीनकः, अत्र कनीधातोर्बाहुलकादौणादिक ईनप्रत्ययस्ततः स्वार्थे कन् (चक्षुर्दाः) चष्टेऽनेन तद्ददातीति (असि) अस्ति (चक्षुः) नेत्रव्यवहारम् (मे) मह्यम् (देहि) ददाति। अयं मन्त्रः (शत० (३.१.३.९-१५) व्याख्यातः ॥३॥