शु॒क्रं त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न। स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्णः॑ पर॒मेण॑ प॒शुना॑ क्रीयसे सहस्रपो॒षं पु॑षेयम् ॥२६॥
शु॒क्रम्। त्वा॒। शु॒क्रेण॑। क्री॒णा॒मि॒। च॒न्द्रम्। च॒न्द्रेण॑। अ॒मृत॑म्। अ॒मृते॑न। स॒ग्मे। ते॒। गोः। अ॒स्मे इत्य॒स्मे। ते॒। च॒न्द्राणि॑। तप॑सः। त॒नूः। अ॒सि॒। प्र॒जाप॑ते॒रिति॑ प्र॒जाऽप॑तेः। वर्णः॑। प॒र॒मेण॑। प॒शुना॑। क्री॒य॒से॒। स॒ह॒स्र॒पो॒षमिति॑ सहस्रऽपो॒षम्। पु॒षे॒य॒म् ॥२६॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्यों को क्या-क्या साधन करके यज्ञ को सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यैः किं कृत्वा यज्ञः साधनीय इत्युपदिश्यते ॥
(शुक्रम्) शुद्धिकारकम् (त्वा) तं क्रियामयं यज्ञम् (शुक्रेण) शुद्धभावेन (क्रीणामि) गृह्णामि (चन्द्रम्) सुवर्णम्। चन्द्रमिति हिरण्यनामसु पठितम्। (निघं०१.२) (चन्द्रेण) सुवर्णेन (अमृतम्) मोक्षसुखम् (अमृतेन) नाशरहितेन विज्ञानेन (सग्मे) गच्छतीति ग्मा पृथिवी तया सह वर्त्तते तस्मिन् यज्ञे। ग्मेति पृथिवीनामसु पठितम्। (निघं०१.१) (ते) तव (गोः) पृथिव्याः सकाशात् (अस्मे) अस्मभ्यम् (ते) तव सकाशात् (चन्द्राणि) काञ्चनादीन् धातून् (तपसः) धर्मानुष्ठानस्याग्नेस्तापसस्य वा (तनूः) शरीरम् (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (प्रजापतेः) प्रजानां पतिः पालनहेतुः सूर्य्यस्तस्य (वर्णः) वरीतुं योग्यः (परमेण) प्रकृष्टेन (पशुना) व्यवहृतेन विक्रीतेन गवादिना (क्रीयसे) क्रीयते (सहस्रपोषम्) असंख्यातपुष्टिम् (पुषेयम्) पुष्टो भवेयम्। अयं मन्त्रः (शत०३.३.३.६-९) व्याख्यातः ॥२६॥