आपो॑ऽअ॒स्मान् मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः᳖ पुनन्तु। विश्व॒ꣳ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒तऽए॑मि। दी॒क्षा॒त॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वा श॒ग्मां परि॑दधे भ॒द्रं वर्णं॒ पुष्य॑न् ॥२॥
आपः॑। अ॒स्मान्। मा॒तरः॑। शु॒न्ध॒य॒न्तु॒। घृ॒तेन॑। नः॒। घृ॒त॒प्व᳖ इति॑ घृतऽप्वः॒। पु॒न॒न्तु॒। विश्व॑म्। हि। रि॒प्रम्। प्र॒वह॒न्तीति॑ प्र॒ऽवह॑न्ति। दे॒वीः। उत्। इत्। आ॒भ्यः॒। शुचिः॑। आ। पू॒तः। ए॒मि॒। दी॒क्षा॒त॒पसोः॑। त॒नूः। अ॒सि॒। ताम्। त्वा॒। शि॒वाम्। श॒ग्माम्। परि॑। द॒धे॒। भ॒द्रम्। वर्ण॑म्। पुष्य॑न् ॥२॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उन जलों से क्या-क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्ताभिरद्भिः किं कर्तव्यमित्युपदिश्यते ॥
(आपः) जलानि (अस्मान्) मनुष्यादीन् प्राणिनः (मातरः) मातृवत् पालिकाः (शुन्धयन्तु) बाह्यदेशं पवित्रं कुर्वन्तु (घृतेन) आज्येन (नः) अस्मान् (घृतप्वः) घृतं पुनन्ति यास्ताः (पुनन्तु) पवित्रयन्तु (विश्वम्) सर्वं जगत् (हि) खलु (रिप्रम्) व्यक्तवाणीप्राप्तव्यं वेदितव्यम्। अत्र लीरीङो ह्रस्वः। (उणा०५.५५) अनेनायं सिद्धः (प्रवहन्ति) प्रकर्षेण प्राप्नुवन्ति (देवीः) देव्यः (उत्) उत्कृष्टे (इत्) अपि (आभ्यः) अद्भ्यः (शुचिः) पवित्रः (आ) समन्तात् (पूतः) शुद्धः (एमि) प्राप्नोमि (दीक्षातपसोः) दीक्षा ब्रह्मचर्य्यादिनियमसेवनं च तपोधर्मानुष्ठानं च तयोः (तनूः) सुखविस्तारनिमित्तं शरीरम् (असि) अस्ति। अत्र व्यत्ययः (ताम्) (त्वा) एताम् (शिवाम्) कल्याणकारिकाम् (शग्माम्) सुखस्वरूपाम् (परि) सर्वतः (दधे) धरामि (भद्रम्) भजनीयम् (वर्णम्) स्वीकर्त्तुमर्हमतिसुन्दरम् (पुष्यन्) पुष्टं कुर्वन्। अयं मन्त्रः (शत० (३.१.२.१-११) व्याख्यातः ॥२॥