श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पोऽअ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवाः॑। ताऽअ॒स्मभ्य॑मय॒क्ष्माऽअ॑नमी॒वाऽअना॑गसः॒ स्व॑दन्तु दे॒वीर॒मृता॑ऽऋता॒वृधः॑ ॥१२॥
श्वा॒त्राः पी॒ताः। भ॒व॒त॒। यू॒यम्। आ॒पः॒। अ॒स्माक॑म्। अ॒न्तः। उ॒दरे। सु॒शेवा॒ इति॑ सु॒ऽशे॑वाः। ताः। अ॒स्मभ्य॑म्। अ॒य॒क्ष्माः। अ॒न॒मी॒वाः। अना॑गसः। स्वद॑न्तु। दे॒वीः। अ॒मृताः॑। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑ ॥१२॥
हिन्दी - स्वामी दयानन्द सरस्वती
इसका अनुष्ठान करके आगे मनुष्यों को क्या-क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
एतदनुष्ठायाग्रे मनुष्यैः किं किं कर्त्तव्यमित्युपदिश्यते ॥
(श्वात्राः) श्वात्रं प्रशस्तं विज्ञानं धनं वा विद्यते यासां ताः। अत्र अर्शआदिभ्योऽच्। (अष्टा०५.२.१२७) इति प्रशंसार्थेऽच्। श्वात्रमिति पदनामसु पठितम्। (निघं०४.२) धननामसु च। (निघं०२.१०) (पीताः) कृतपानाः (भवत) नित्यं सम्पद्येरन् (यूयम्) एताः (आपः) प्राणा जलादयो वा (अस्माकम्) मनुष्याणाम् (अन्तः) मध्ये (उदरे) शरीराभ्यन्तरे (सुशेवाः) सुष्ठु शेवं सुख याभ्यस्ताः। शेवमिति सुखनामसु पठितम्। (निघं०३.६) (अस्मभ्यम्) मनुष्यादिभ्यः (अयक्ष्माः) अविद्यमानो यक्ष्मा क्षयरोगे याभ्यस्ताः (अनमीवाः) अविद्यमानोऽमीवा ज्वरादिरोगसमूहो याभ्यस्ताः (अनागसः) न विद्यतेऽगः पापं दोषो यासु ता निर्दोषाः (स्वदन्तु) सुष्ठु सेवन्ताम् (देवीः) दिव्यगुणसम्पन्नाः। अत्र वा छन्दसि। [अष्टा०६.१.१०६] इति जसः पूर्वसवर्णत्वम् (अमृताः) नाशरहिता अमृतरसाः (ऋतावृधः) या ऋतं सत्यं वर्धयन्ति ताः। अयं मन्त्रः (शत०३.२.२.१९) व्याख्यातः ॥१२॥