अ॒ग्निꣳ हृद॑येना॒शनि॑ꣳहृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना। श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ॥८ ॥
अ॒ग्निम्। हृद॑येन। अ॒शानि॑म्। हृ॒द॒या॒ग्रेणेति॑ हृदयऽअ॒ग्रेण॑। प॒शु॒पति॒मिति॑ पशु॒ऽपति॑म्। कृ॒त्स्न॒हृद॑ये॒नेति॑ कृत्स्न॒ऽहृद॑येन। भ॒वम्। य॒क्ना ॥ श॒र्वम्। मत॑स्नाभ्याम्। ईशा॑नम्। म॒न्युना॑। म॒हा॒दे॒वमिति॑ महाऽदे॒वम्। अ॒न्तः॒ऽप॒र्श॒व्येन॑। उ॒ग्रम्। दे॒वम्। व॒नि॒ष्ठुना॑। व॒सि॒ष्ठ॒हनु॒रिति॑ वसिष्ठ॒ऽहनुः॑। शिङ्गी॑नि। को॒श्याभ्या॑म् ॥८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
कौन मनुष्य दोनों जन्म में सुख पाते हैं, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
के जना उभयजन्मनोः सुखमाप्नुवन्तीत्याह ॥
(अग्निम्) पावकम् (हृदयेन) हृदयावयवेन (अशनिम्) विद्युतम् (हृदयाग्रेण) हृदयस्य पुरोभागेन (पशुपतिम्) पशूनां पालकं जगद्धर्त्तारं रुद्रं सर्वप्राणम् (कृत्स्नहृदयेन) संपूर्णहृदयावयवेन (भवम्) यस्सर्वत्र भवति तम् (यक्ना) यकृता शरीराऽवयवेन (शर्वम्) विज्ञातारम् (मतस्नाभ्याम्) हृदयपार्श्वाऽवयवाभ्याम् (ईशानम्) सर्वस्य जगतः स्वामिनम् (मन्युना) दुष्टाचारिणः पापं च प्रति वर्त्तमानेन क्रोधेन (महादेवम्) महांश्चासौ देवश्च तं परमात्मानं (अन्तःपर्शव्येन) अन्तःपार्श्वावयवभावेन (उग्रम्) तीक्ष्णस्वभावम् (देवम्) देदीप्यमानम् (वनिष्ठुना) आन्त्रविशेषेण (वसिष्ठहनुः) वसिष्ठस्यातिशयेन वासहेतोर्हनुरिव हनुर्यस्य तम्। अत्र सुपां सुलुग् [अ०७.१.३९] इत्यमः स्थाने सुः (शिङ्गीनि) ज्ञातुं प्राप्तुं योग्यानि। अत्र स्रगिधातोः पृषोदरादिनाभीष्टरूपसिद्धिः। (कोश्याभ्याम्) कोश उदरे भवाभ्यां मांसपिण्डाभ्याम् ॥८ ॥