पय॑सो॒ रेत॒ऽआभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तरा॒ समा॑म्। त्विषः॑ सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः। इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ऽ उप॑हूत॒ऽ उप॑हूतस्य भक्षयामि ॥२८ ॥
पय॑सः। रेतः॑। आभृ॑त॒मित्याऽभृ॑तम्। तस्य॑। दोह॑म्। अ॒शी॒म॒हि॒। उत्त॑रामुत्तरा॒मित्युत्त॑राम्ऽउत्त॑राम्। समा॑म्। त्विषः॑। सं॒वृगिति॑ स॒म्ऽवृक्। क्रत्वे॑। दक्ष॑स्य। ते॒। सु॒षु॒म्णस्य॑। सु॒सु॒म्नस्येति॑ सुऽसु॒म्नस्य॑। ते॒। सु॒षु॒म्ण॒। सु॒सु॒म्नेति॑ सुऽसुम्न। अ॒ग्नि॒हु॒त इत्य॑ग्निऽहु॒तः ॥ इन्द्र॑पीत॒स्येतीन्द्रऽपीतस्य। प्र॒जाप॑तिभक्षित॒स्येति॑ प्र॒जाप॑तिऽभक्षितस्य। मधु॑मत॒ इति॒ मधु॑ऽमतः। उप॑हूत॒ इत्युप॑ऽहूतः। उप॑हूत॒स्येत्युप॑ऽहूतस्य। भ॒क्ष॒या॒मि॒ ॥२८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या-क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं किं कुर्य्युरित्याह ॥
(पयसः) उदकस्य दुग्धस्य वा (रेतः) वीर्य्यम् (आभृतम्) समन्तात् पुष्टं धृतं वा (तस्य) (दोहम्) प्रपूर्त्तिम् (अशीमहि) प्राप्नुयाम (उत्तरामुत्तराम्) आगामिनीमागामिनीम् (समाम्) वेलाम् (त्विषः) प्रदीप्तस्य (संवृक्) यः संवृक्ते सः (क्रत्वे) प्रज्ञायै (दक्षस्य) बलस्य (ते) तव (सुषुम्णस्य) शोभनं सुम्नं सुखं यस्य (ते) तव (सुषुम्ण) शोभनसुखयुक्त ! (अग्निहुतः) अग्नौ हुतं प्रक्षिप्तं येन (इन्द्रपीतस्य) सूर्य्येण जीवेन वा पीतस्य (प्रजापतिभक्षितस्य) प्रजास्वामिनेश्वरेण सेवितस्य भक्षितस्य वा (मधुमतः) मधुरादिगुणस्य (उपहूतः) उप समीपे कृताऽऽह्वानः (उपहूतस्य) समीपमाहूतस्य (भक्षयामि) ॥२८ ॥