विश्वा॒ऽआशा॑ दक्षिण॒सद् विश्वा॑न् दे॒वानया॑डि॒ह। स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः॑ पिबतमश्विना ॥१० ॥
विश्वाः॑। आशाः॑। द॒क्षि॒ण॒सदिति दक्षिण॒ऽसत्। विश्वा॑न्। दे॒वान्। अया॑ट्। इ॒ह ॥ स्वाहा॑कृत॒स्येति॒ स्वाहा॑ऽकृतस्य। घ॒र्मस्य॑। मधोः। पि॒ब॒त॒म्। अ॒श्वि॒ना॒ ॥१० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर अध्यापक-उपदेशक क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरध्यापकोपदेशकौ किं कुर्यातामित्याह ॥
(विश्वाः) सर्वाः (आशाः) दिशः (दक्षिणसत्) यो दक्षिणे देशे सीदति (विश्वान्) समग्रान् (देवान्) शुभान् गुणान् विदुषो वा (अयाट्) यजेत् सङ्गच्छेत् (इह) अस्मिन् संसारे (स्वाहाकृतस्य) सत्यक्रियानिष्पन्नस्य (घर्मस्य) यज्ञस्य (मधोः) मधुरादिगुणयुक्तस्य (पिबतम्) (अश्विना) अध्यापकोपदेशकौ ॥१० ॥