वांछित मन्त्र चुनें

कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒मापः॑ शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः। अ॒न्तरि॑क्षꣳ शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑ ॥९ ॥

मन्त्र उच्चारण
पद पाठ

कल्प॑न्ताम्। ते॒। दिशः॑। तुभ्य॑म्। आपः॑। शि॒वत॑मा॒ इति॑ शि॒वऽत॑माः। तुभ्य॑म्। भ॒व॒न्तु॒। सिन्ध॑वः ॥ अ॒न्तरि॑क्षम्। शि॒वम्। तुभ्य॑म्। कल्प॑न्ताम्। ते॒। दिशः॑ सर्वाः॑ ॥९ ॥

यजुर्वेद » अध्याय:35» मन्त्र:9


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे जीव (ते) तेरे लिये (दिशः) पूर्व आदि दिशा (शिवतमाः) अत्यन्त सुखकारिणी (कल्पन्ताम्) समर्थ हों, (तुभ्यम्) तेरे लिये (आपः) प्राण वा जल अति सुखकारी हों, (तुभ्यम्) तेरे लिये (सिन्धवः) नदियाँ वा समुद्र अति सुखकारी (भवन्तु) होवें, (तुभ्यम्) तेरे लिये (अन्तरिक्षम्) आकाश (शिवम्) कल्याणकारी हो, और (ते) तेरे लिये (सर्वाः) सब (दिशः) ईशानादि विदिशा अत्यन्त कल्याणकारी (कल्पन्ताम्) समर्थ होवें ॥९ ॥
भावार्थभाषाः - जो लोग अधर्म को छोड़कर सब प्रकार से धर्म का आचरण करते हैं, उनके लिये पृथिवी आदि सृष्टि के सब पदार्थ अत्यन्त मङ्गलकारी होते हैं ॥९ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(कल्पन्ताम्) समर्था भवन्तु (ते) तुभ्यम् (दिशः) पूर्वाद्याः (तुभ्यम्) (आपः) प्राणा जलानि वा (शिवतमाः) अतिशयेन सुखकराः (तुभ्यम्) (भवन्तु) (सिन्धवः) नद्यः समुद्रा वा (अन्तरिक्षम्) आकाशम् (शिवम्) सुखकरम्। शिवमिति सुखनामसु पठितम् ॥ (निघं०३.६) (तुभ्यम्) (कल्पन्ताम्) (ते) तुभ्यम् (दिशः) ऐशान्याद्याः (सर्वाः) समग्राः ॥९ ॥

पदार्थान्वयभाषाः - हे जीव ! ते दिशश्शिवतमाः कल्पन्ताम्, तुभ्यमापः शिवतमा भवन्तु, तुभ्यं सिन्धवः शिवतमा भवन्तु, तुभ्यं शिवमन्तरिक्षं भवतु, ते सर्वा दिशः शिवतमाः कल्पन्ताम् ॥९ ॥
भावार्थभाषाः - येऽधर्मं विहाय सर्वथा धर्माचरन्ति, तेभ्यः पृथिव्यादयः सर्वे सृष्टिस्थाः पदार्था मङ्गलकारिणो भवन्ति ॥९ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे लोक अधर्म सोडून सर्व प्रकारे धर्माचरण करतात त्यांचे पृथ्वी इत्यादी सृष्टीतील सर्व पदार्थांद्वारे कल्याण होते.