वांछित मन्त्र चुनें

शं वातः॒ शꣳ हि ते॒ घृणिः॒ शं ते॑ भव॒न्त्विष्ट॑काः। शं ते॑ भवन्त्व॒ग्नयः॒ पार्थि॑वासो॒ मा त्वा॒भि शू॑शुचन् ॥८ ॥

मन्त्र उच्चारण
पद पाठ

शम्। वातः॑। शम्। हि। ते॒। घृणिः॑। शम्। ते॒। भ॒व॒न्तु॒। इष्ट॑काः ॥ शम्। ते॒। भ॒व॒न्तु॒। अ॒ग्नयः॑। पार्थि॑वासः। मा। त्वा॒। अ॒भि। शू॒शु॒च॒न् ॥८ ॥

यजुर्वेद » अध्याय:35» मन्त्र:8


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

सृष्टि के पदार्थ मनुष्यों को कैसे सुखकारी हों, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे जीव ! (ते) तेरे लिये (वातः) वायु (शम्) सुखकारी हो, (घृणिः) किरणयुक्त सूर्य्य (शम्, हि) सुखकारी हो, (इष्टकाः) वेदी में चयन की हुई र्इंटें (ते) तेरे लिये (शम्) सुखदायिनी (भवन्तु) हों, (पार्थिवासः) पृथिवी पर प्रसिद्ध (अग्नयः) विद्युत् आदि अग्नि (ते) तेरे लिये (शम्) कल्याणकारी (भवन्तु) होवें, ये सब (त्वा) तुझको (मा, अभि, शूशुचन्) सब ओर से शीघ्र शोककारी न हों ॥८ ॥
भावार्थभाषाः - हे जीवो ! वैसे ही तुमको धर्मयुक्त व्यवहार में वर्त्तना चाहिये, जैसे जीने वा मरने के बाद भी तुमको सृष्टि के वायु आदि पदार्थ सुखकारी हों ॥८ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

सृष्टिस्थाः पदार्थाः कथं मनुष्याणां सुखकारिणः स्युरित्याह ॥

अन्वय:

(शम्) सुखकरः (वातः) वायुः (शम्) (हि) यतः (ते) (घृणिः) रश्मिवान् सूर्य्यः (शम्) (ते) (भवन्तु) (इष्टकाः) वेद्यां चिताः (शम्) (ते) (भवन्तु) (अग्नयः) पावकाः (पार्थिवासः) विदिताः (मा) (त्वा) (अभि) (शूशुचन्) भृशं शोकं कुर्य्युः ॥८ ॥

पदार्थान्वयभाषाः - हे जीव ! ते वातः शं भवतु, घृणिः शं हि भवतु, इष्टकास्ते शं भवन्तु, पार्थिवासोऽग्नयस्ते शं भवन्त्वेते त्वा माभि शूशुचन् ॥८ ॥
भावार्थभाषाः - हे जीवास्तथैव युष्माभिर्धर्म्ये व्यवहारे वर्त्तितव्यं यथा जीवतां मृतानां च युष्माकं सृष्टिस्था वाय्वादयः पदार्थाः सुखकराः स्युः ॥८ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे जीवांनो ! जिवंत असेपर्यंत किंवा मृत्यूनंतरही सृष्टीतील वायू इत्यादी पदार्थ तुम्हाला सुखकारक व्हावेत यासाठी धर्मयुक्त व्यवहारात राहा.