वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न् वेत्थ॒ निहि॑तान् परा॒के। मेद॑सः कु॒ल्याऽ उप॒ तान्त्स्र॑वन्तु स॒त्याऽ ए॑षामा॒शिषः॒ सं न॑मन्ता॒ स्वाहा॑ ॥२० ॥
वह॑। व॒पाम्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। यत्र॑। ए॒ना॒न्। वेत्थ॑। निहि॑ता॒निति॒ निऽहि॑तान्। प॒रा॒के ॥ मेद॑सः। कु॒ल्याः। उप॑। तान्। स्र॒व॒न्तु॒। स॒त्याः। ए॒षा॒म्। आ॒शिष॒ इत्या॒ऽऽशिषः॑। सम्। न॒म॒न्ता॒म्। स्वाहा॑ ॥२० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब पितृ लोगों का सेवन विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ पितृसेवनविषयमाह ॥
(वह) प्राप्नुहि (वपाम्) वपन्ति यस्यां भूमौ ताम् (जातवेदः) जातप्रज्ञानः (पितृभ्यः) जनकेभ्यो विद्याशिक्षादातृभ्यो वा (यत्र) (एनान्) (वेत्थ) जानासि (निहितान्) (पराके) दूरे (मेदसः) स्निग्धाः (कुल्याः) जलप्रवाहाधाराः (उप) (तान्) जनान् (स्रवन्तु) प्राप्नुवन्तु (सत्याः) सत्सु साध्व्यः (एषाम्) (आशिषः) इच्छा (सम्) सम्यक् (नमन्ताम्) प्राप्नुवन्तु (स्वाहा) सत्यया क्रियया ॥२० ॥