अश्म॑न्वती रीयते॒ सꣳर॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः। अत्रा॑ जही॒मोऽशि॑वा॒ येऽ अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥१० ॥
अश्म॑न्व॒तीत्यश्म॑न्ऽवती। री॒य॒ते॒। सम्। र॒भ॒ध्व॒म्। उत्। ति॒ष्ठ॒त॒। प्र। त॒र॒त॒। स॒खा॒यः॒ ॥अत्र॑। ज॒ही॒मः॒। अशि॑वाः। ये। अस॑न्। शि॒वान्। व॒यम्। उत्। त॒रे॒म॒। अ॒भि। वाजा॑न् ॥१० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
कौन लोग दुःख के पार होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
के दुःखात् तरन्तीत्याह ॥
(अश्मन्वती) बहवोऽश्मानो मेघाः पाषाणा वा विद्यन्ते यस्यां सृष्टौ नद्यां वा सा (रीयते) गच्छति (सम्) सम्यक् (रभध्वम्) प्रारम्भं कुरुत (उत्) (तिष्ठत) उद्यता भवत (प्र) (तरत) दुःखान्युल्लङ्घयत। अत्र संहितायाम् [अ०६.३.११४] इति दीर्घः। (सखायः) सुहृदः सन्तः (अत्र) अस्मिन् संसारे समये वा। अत्र निपातस्य च [अ०६.३.१३६] इति दीर्घः। (जहीमः) त्यजामः (अशिवाः) अकल्याणकराः (ये) (असन्) सन्ति (शिवान्) सुखकरान् (वयम्) (उत्) (तरेम) उल्लङ्घयेम (अभि) (वाजान्) अत्युत्तमानन्नादिभोगान् ॥१० ॥