येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑म्। येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥४ ॥
येन॑। इ॒दम्। भू॒तम्। भुव॑नम्। भ॒वि॒ष्यत्। परि॑गृहीत॒मिति॑ परि॑ऽगृहीतम्। अ॒मृते॑न। सर्व॑म् ॥ येन॑। य॒ज्ञः। ता॒यते॑। स॒प्तहो॒तेति॑ स॒प्तऽहो॒ता। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु॒ ॥४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(येन) मनसा (इदम्) वस्तुजातम् (भूतम्) अतीतम् (भुवनम्) भवतीति भुवनम्। वर्त्तमानकालस्य सम्बन्धि। औणादिकः क्युः। (भविष्यत्) यदुत्पत्स्यमानं भावि (परिगृहीतम्) परितः सर्वतो गृहीतं ज्ञातम् (अमृतेन) नाशरहितेन परमात्मना सह युक्तेन (सर्वम्) समग्रम् (येन) (यज्ञः) अग्निष्टोमादिविज्ञानमयो व्यवहारो वा (तायते) तन्यते विस्तीर्य्यते (सप्तहोता) अग्निष्टोमेऽपि सप्तहोतारो भवन्ति (तत्) (मे) मम (मनः) योगयुक्तं चित्तम् (शिवसङ्कल्पम्) शिवो मोक्षरूपसङ्कल्पो यस्य तत् (अस्तु) भवतु ॥४ ॥