प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्त्ता। आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द् राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥३५ ॥
प्रा॒त॒र्जित॒मिति॑ प्रातः॒ऽजित॑म्। भग॑म्। उ॒ग्रम्। हु॒वे॒म॒। व॒यम्। पु॒त्रम्। अदि॑तेः। यः। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता ॥ आ॒ध्रः। चि॒त्। यम्। मन्य॑मानः। तु॒रः। चि॒त्। राजा॑। चि॒त्। यम्। भग॑म्। भ॒क्षि॒। इति॑। आह॑ ॥३५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्य लोग ऐश्वर्य्य का सम्पादन करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्या ऐश्वर्य्यं सम्पादयेयुरित्याह ॥
(प्रातः) प्रभाते (जितम्) स्वपुरुषार्थेन लब्धम् (भगम्) ऐश्वर्य्यम् (उग्रम्) अत्युत्कृष्टम् (हुवेम) गृह्णीयाम (वयम्) (पुत्रम्) (अदितेः) अविनाशिनः कारणस्येव मातुः (यः) (विधर्त्ता) यो विविधान् पदार्थान् धरति सः (आध्रः) अपुत्रस्य पुत्रः (चित्) अपि (यम्) (मन्यमानः) विजानन् (तुरः) त्वरमाणः (चित्) अपि (राजा) राजमानः (चित्) (यम्) (भगम्) ऐश्वर्यम् (भक्षि) सेवस्व (इति) अनेन प्रकारेण (आह) परमेश्वर उपदिशति ॥३५ ॥