प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ꣳ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑। प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रꣳ हु॑वेम ॥३४ ॥
प्रा॒तः। अ॒ग्निम्। प्रा॒तः। इन्द्र॑म्। ह॒वा॒म॒हे॒। प्रा॒तः। मि॒त्रावरु॑णा। प्रा॒तः। अ॒श्विना॑ ॥ प्रा॒तः। भग॑म्। पू॒षण॑म्। ब्रह्म॑णः। पति॑म्। प्रा॒तरिति॑ प्रा॒तः। सोम॑म्। उ॒त। रु॒द्रम्। हु॒वे॒म॒ ॥३४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं कुर्युरित्याह ॥
(प्रातः) प्रभाते (अग्निम्) पवित्रं स्वप्रकाशं परमात्मानं पावकमग्निं वा (प्रातः) (इन्द्रम्) परमैश्वर्यम् (हवामहे) आदद्यामाह्वयेम वा (प्रातः) (मित्रावरुणा) प्राणोदानौ (प्रातः) (अश्विना) अध्यापकोपदेशकौ (प्रातः) (भगम्) भजनीयं भागम् (पूषणम्) पुष्टिकरं भोगम् (ब्रह्मणः) धनस्य वेदस्य (पतिम्) स्वामिनं पालकम् (प्रातः) (सोमम्) ओषधिगणम् (उत) अपि (रुद्रम्) जीवम् (हुवेम) गृह्णीयाम ॥३४ ॥