द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वीऽउ॒त द्यौः ॥३० ॥
द्युभि॒रिति॒ द्युऽभिः॑। अ॒क्तुभि॒रित्य॒क्तुऽभिः॑। परि॑। पा॒त॒म्। अ॒स्मान्। अरि॑ष्टेभिः। अ॒श्वि॒ना॒। सौभ॑गेभिः ॥ तत्। नः॒। मि॒त्रः। वरु॑णः। मा॒म॒ह॒न्ता॒म्। अदि॑तिः। सिन्धुः॑। पृ॒थि॒वी। उ॒त। द्यौः ॥३० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब सभासेनाधीश क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सभासेनाधिपौ किं कुर्यातामित्याह ॥
(द्युभिः) दिवसैः (अक्तुभिः) रात्रिभिः (परि) सर्वतः (पातम्) रक्षतम् (अस्मान्) (अरिष्टेभिः) अहिंसितैः (अश्विना) सभासेनेशौ ! (सौभगेभिः) श्रेष्ठानां धनानां भावैः (तत्) तान् (नः) अस्मान् (मित्रः) सखा (वरुणः) दुष्टानां बन्धकः (मामहन्ताम्) सत्कुर्वन्तु (अदितिः) पृथिवी (सिन्धुः) सप्तविधः समुद्रः (पृथिवी) अन्तरिक्षम् (उत) अपि (द्यौः) प्रकाशः ॥३० ॥