इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रया॑सि। तिति॑क्षन्तेऽअ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥१८ ॥
इ॒च्छन्ति॑। त्वा॒। सो॒म्यासः॑। सखा॑यः। सु॒न्वन्ति॑। सोम॑म्। दध॑ति। प्रया॑सि ॥ तिति॑क्षन्ते॑। अ॒भिश॑स्ति॒मित्य॒भिऽश॑स्तिम्। जना॑नाम्। इन्द्र॑। त्वत्। आ। कः। च॒न। हि। प्र॒के॒त इति॑ प्रऽके॒तः ॥१८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब आप्त का लक्षण कहते हैं ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथाप्तलक्षणमाह ॥
(इच्छन्ति) (त्वा) त्वाम् (सोम्यासः) सोमेष्वैश्वर्यादिषु साधवः (सखायः) सुहृदः सन्तः (सुन्वन्ति) निष्पादयन्ति (सोमम्) ऐश्वर्यादिकम् (दधति) धरन्ति (प्रयांसि) कमनीयानि विज्ञानादीनि (तितिक्षन्ते) सहन्ते (अभिशस्तिम्) दुर्वचनवादम् (जनानाम्) मनुष्याणाम् (इन्द्र) राजन् ! (त्वत्) तव सकाशात् (आ) समन्तात् (कः) (चन) अपि (हि) यतः (प्रकेतः) प्रकृष्टा केता प्रज्ञा यस्य सः ॥१८ ॥