प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसेऽअङ्गिर॒स्वत्। सु॒वृ॒क्तिभिः॑ स्तुव॒तऽऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥१६ ॥
प्र। म॒न्म॒हे॒। श॒व॒सा॒नाय॑। शू॒षम्। आ॒ङ्गू॒षम्। गिर्व॑णसे। अ॒ङ्गि॒र॒स्वत् ॥ सु॒वृ॒क्तिभि॒रिति॑ सुवृ॒क्तिऽभिः॑ स्तु॒व॒ते। ऋ॑ग्मियाय॑। अर्चा॑म। अ॒र्कम्। नरे॑। विश्रु॑ता॒येति॒ विऽश्रु॑ताय ॥१६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्यों को विद्या और धर्म बढ़ाने चाहियें, इस विषय को कहते हैं ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यैर्विद्याधर्मौ वर्द्धनीयावित्याह ॥
(प्र) (मन्महे) याचामहे। मन्मह इति याञ्चाकर्मा ॥ (निघं०३.१९) (शवसानाय) विज्ञानाय (शूषम्) बलम् (आङ्गूषम्) विद्याशास्त्रबोधम्। आङ्गूष इति पदनामसु पठितम् ॥ (निघं०४.२) (गिर्वणसे) गिरः सुशिक्षिता वाचो वनन्ति संभजन्ति वा तस्मै (अङ्गिरस्वत्) प्राणवत् (सुवृक्तिभिः) सुष्ठु वृजते दोषान् यासु क्रियासु ताभिः (स्तुवते) यः शास्त्रार्थान् स्तौति (ऋग्मियाय) यो ऋचो मिनोत्यधीते तस्मै (अर्चाम) सत्कुर्याम (अर्कम्) अर्चनीयम् (नरे) नायकाय (विश्रुताय) विशेषेण श्रुता गुणा यस्मिंस्तस्मै ॥१६ ॥