वांछित मन्त्र चुनें

तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञऽ उ॒ग्रस्त्वे॒षनृ॑म्णः। स॒द्यो ज॑ज्ञा॒नो निरि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः॑ ॥८० ॥

मन्त्र उच्चारण
पद पाठ

तत्। इत्। आ॒स॒। भुव॑नेषु। ज्येष्ठ॑म्। यतः॑। ज॒ज्ञे। उ॒ग्रः। त्वे॒षनृ॑म्ण॒ इति॑ त्वे॒षऽनृ॑म्णः ॥ स॒द्यः। ज॒ज्ञा॒नः। निरि॑णाति। शत्रू॑न्। अनु॑। यम्। विश्वे॑। मद॑न्ति। ऊमाः॑ ॥८० ॥

यजुर्वेद » अध्याय:33» मन्त्र:80


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! (यतः) जिससे (उग्रः) तेज स्वभाववाला (त्वेषनृम्णः) सुन्दर प्रकाशित धन से युक्त वीर पुरुष (जज्ञे) उत्पन्न हुआ, जो (जज्ञानः) उत्पन्न हुआ (शत्रून्) शत्रुओं को (सद्यः) शीघ्र (निरिणाति) निरन्तर मारता है, (विश्वे) सब (ऊमाः) रक्षादि कर्म करनेवाले लोग (यम्) जिसके (अनु) पीछे (मदन्ति) आनन्द करते हैं, (तत्, इत्) वही ब्रह्म परमात्मा (भुवनेषु) लोक-लोकान्तरों में (ज्येष्ठम्) सबसे बड़ा, मान्य और श्रेष्ठ (आस) है, ऐसा तुम जानो ॥८० ॥
भावार्थभाषाः - हे मनुष्यो ! जिसकी उपासना से शूरवीरता को प्राप्त हो शत्रुओं को मार सकते हैं, जिसकी उपासना कर विद्वान् लोग आनन्दित होके सबको आनन्दित करते हैं, उसी सबसे उत्कृष्ट सबके उपास्य परमेश्वर का सब लोग निश्चय करें ॥८० ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(तत्) (इत्) (आस) अस्ति। अत्र छन्दस्युभयथा [अ०३.४.११७] इति लिट आर्द्धधातुकसंज्ञाभावः। (भुवनेषु) लोकलोकान्तरेषु (ज्येष्ठम्) वृद्धं श्रेष्ठम् (यतः) यस्मात् (जज्ञे) (उग्रः) तीक्ष्णस्वभावः (त्वेषनृम्णः) त्वेषं सुप्रकाशितं नृम्णं धनं यस्य सः (सद्यः) (जज्ञानः) जायमानः (निरिणाति) हिनस्ति (शत्रून्) (अनु) (यम्) (विश्वे) सर्वे (मदन्ति) हृष्यन्ति (ऊमाः) रक्षादिकर्मकर्त्तारः ॥८० ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यत उग्रस्त्वेषनृम्णो वीरो जज्ञे यो जज्ञानः शत्रून् सद्यो निरिणाति विश्वा ऊमा यमनुमदन्ति तदिदेव ब्रह्म भुवनेषु ज्येष्ठमासेति विजानीत ॥८० ॥
भावार्थभाषाः - हे मनुष्याः ! यस्योपासनाच्छूरा वीरत्वमुपलभ्य शत्रून् हन्तुं शक्नुवन्ति, यमुपास्य विद्वांस आनन्दिता भूत्वा सर्वानानन्दयन्ति, तमेव सर्वोत्कृष्टं सर्वोपास्यं परमेश्वरं सर्वे निश्चिन्वन्तु ॥८० ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो ! ज्याची उपासना केल्याने शूरपणा प्राप्त होऊन शत्रूंचा नायनाट करता येतो. ज्याची उपासना केल्याने विद्वान लोक आनंदित होऊन सर्वांना आनंदित करतात. अशा सर्वात उत्कृष्ट व उपास्य असणाऱ्या परमेश्वराला सर्वांनी निश्चितपणे जाणावे.