प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑। वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥७० ॥
प्र। वी॒र॒येति॑ वीर॒ऽया। शुच॑यः। द॒द्रिरे॒। वा॒म्। अ॒ध्व॒र्युभि॒रित्य॑ध्वर्युऽभिः॑। मधु॑मन्त॒ इति॒ मधु॑मन्तः। सु॒तासः॑। वह॑। वा॒योऽइति॑ वायो। नि॒युत॒ इति॑ नि॒ऽयुतः॑। या॒हि॒। अच्छ॑। पिब॑। सु॒तस्य॑। अन्ध॑सः। मदा॑य ॥७० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(प्र) (वीरया) वीरयुक्तया (शुचयः) पवित्राः (दद्रिरे) विदीर्णान् कुर्वन्ति। व्यत्ययेनात्रात्मनेपदम्। (वाम्) युवयोः राजप्रजाजनयोः (अध्वर्युभिः) हिंसाऽन्यायवर्जितैः सह (मधुमन्तः) प्रशस्तविज्ञानयुक्ताः (सुतासः) विद्यासुशिक्षाभ्यां निष्पन्नाः (वह) प्रापय (वायो) वायुवद्वर्त्तमान बलिष्ठ राजन् ! (नियुतः) नितरां मिश्रितामिश्रितान् वाय्वादिगुणान् (याहि) प्राप्नुहि (अच्छ) सम्यक्। अत्र निपातस्य च [अ०६.३.१३६] इति दीर्घः। (पिब) अत्र द्व्यचोऽतस्तिङः [अ०६.३.१३५] इति दीर्घः। (सुतस्य) निष्पन्नस्य (अन्धसः) अन्नस्य (मदाय) आनन्दाय ॥७० ॥