य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑। आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ꣳहोश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥६८ ॥
य॒ज्ञः। दे॒वाना॑म्। प्रति॑। ए॒ति॒। सु॒म्नम्। आदि॑त्यासः। भव॑त। मृ॒ड॒यन्तः॑ ॥ आ। वः॒। अ॒र्वाची॑। सु॒म॒तिरिति॑ सुऽम॒तिः। व॒वृ॒त्या॒त्। अ॒ꣳहोः। चि॒त्। या। व॒रि॒वो॒वित्त॒रेति॑ वरिवो॒वित्ऽतरा॑। अस॑त् ॥६८ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(यज्ञः) सङ्गन्तव्यः सङ्ग्रामादिव्यवहारः (देवानाम्) विदुषाम् (प्रति) (एति) प्राप्नोति (सुम्नम्) सुखं कर्त्तुम् (आदित्यासः) सूर्यवत्तेजस्विनः (भवत) अत्र संहितायाम् [अ०६.३.११४] इति दीर्घः। (मृडयन्तः) सुखयन्तः (आ) (वः) युष्माकम् (अर्वाची) अस्मदभिमुखी (सुमतिः) शोभना प्रज्ञा (ववृत्यात्) आवर्त्तताम्। वृतु धातोर्लिङि विकरणात्मनेपदं व्यत्ययेन श्लुर्द्वित्वं च। (अंहोः) अपराधिनः (चित्) अपि (या) (वरिवोवित्तरा) यातिशयेन परिचरणलब्ध्री (असत्) स्यात् ॥६८ ॥