ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्द्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्ठौ। ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोम॒ꣳ सग॑णो म॒रुद्भिः॑ ॥६३ ॥
ये। त्वा। अ॒हि॒हत्य॒ इत्य॑हि॒ऽहत्ये॑। म॒घ॒वन्निति॑ मघऽवन्। अव॑र्द्धन्। ये। शा॒म्ब॒रे। ह॒रि॒व इति॑ हरिऽवः। ये। गवि॑ष्ठा॒विति॒ गोऽइ॑ष्ठौ ॥ ये। त्वा। नू॒नम्। अ॒नुमद॒न्तीत्य॑नु॒मद॑न्ति। विप्राः॑। पिब॑। इ॒न्द्र॒। सोम॑म्। सग॑ण॒ इति॒ सऽग॑णः। म॒रुद्भि॒रिति॑ म॒रुत्ऽभिः॑ ॥६३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब राजधर्म विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ राजधर्मविषयमाह ॥
(ये) (त्वा) त्वाम् (अहिहत्ये) अहेर्मेघस्य हत्या हननं यस्मिँस्तस्मिन् (मघवन्) परमपूजितधनयुक्त सेनापते (अवर्द्धन्) वर्द्धयेयुः (ये) (शाम्बरे) शम्बरस्य मेघस्याऽयं सङ्ग्रामस्तस्मिन् (हरिवः) प्रशस्ता हरयः किरणा इवाऽश्वा विद्यन्ते यस्य तत्सम्बुद्धौ (ये) (गविष्ठौ) गवां किरणानां सङ्गत्याम् (ये) (त्वा) त्वाम् (नूनम्) निश्चितम् (अनुमदन्ति) आनकूल्येन हृष्यन्ति (विप्राः) मेधाविनः (पिब) (इन्द्र) परमैश्वर्य्ययुक्त विद्वन् (सोमम्) सदौषधिरसम् (सगणः) गणैः सह वर्त्तमानः (मरुद्भिः) वायुभिरिव मनुष्यैः ॥६३ ॥