प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं॒ वि॒श्ववा॑रꣳ रथ॒प्राम्। द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥५५ ॥
प्र। वा॒युम्। अच्छ॑। बृ॒ह॒ती। म॒नी॒षा। बृ॒हद्र॑यि॒मिति॑ बृ॒हत्ऽर॑यिम्। वि॒श्ववा॑र॒मिति॑ वि॒श्वऽवा॑रम्। र॒थ॒प्रामिति॑ रथ॒ऽप्राम्। द्यु॒तद्या॒मेति॑ द्यु॒तत्ऽया॑मा। नि॒युत॒ इति॑ नि॒ऽयुतः॑। पत्य॑मानः। क॒विः। क॒विम्। इ॒य॒क्ष॒सि॒। प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ॥५५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(प्र) (वायुम्) प्राणादिलक्षणम् (अच्छ) शोभने। अत्र निपातस्य च [अ०६.३.१३६] इति दीर्घः। (बृहती) महती (मनीषा) प्रज्ञा (बृहद्रयिम्) बृहन्तो रययो यस्मिंस्तम् (विश्ववारम्) यो विश्वं वृणोति तम् (रथप्राम्) यो रथान् यानानि प्राति व्याप्नोति तम् (द्युतद्यामा) द्युतद्दीप्यमानमग्निं याति तम्। अत्र विभक्तेर्लुक् संहितायाम् [अ०६.३.११४] इति दीर्घः। (नियुतः) निश्चितान् (पत्यमानः) प्राप्नुवन् (कविः) मेधावी विद्वान् (कविम्) मेधाविनम् (इयक्षसि) यष्टुं सङ्गन्तुमिच्छसि (प्रयज्यो) प्रकृष्टतया यज्ञकर्त्तुः ॥५५ ॥