अ॒र्वाञ्चो॑ऽअ॒द्या भ॑वता यजत्रा॒ऽआ वो॒ हार्दि॒ भय॑मानो व्ययेयम्। त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्त्ताद॑व॒पदो॑ यजत्राः ॥५१ ॥
अ॒र्वाञ्चः॑। अ॒द्य। भ॒व॒त॒। य॒ज॒त्राः॒। आ। वः॒। हार्दि। भय॑मानः। व्य॒ये॒य॒म् ॥ त्राध्व॑म्। नः॒। दे॒वाः॒। नि॒जुर॒ऽइति॑ नि॒जुरः॑। वृक॑स्य। त्राध्व॑म्। क॒र्त्तात्। अ॒व॒पद॒ इत्य॑व॒ऽपदः॑। य॒ज॒त्राः॒ ॥५१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(अर्वाञ्चः) अस्मदभिमुखाः (अद्य) अत्र निपातस्य च [अ०६.३.१३६] इति दीर्घः। (भवत) अत्र संहितायाम् [अ०६.३.११४] इति दीर्घः। (यजत्राः) सङ्गतिकर्त्तारः (आ) (वः) युष्माकम् (हार्दि) हृदि भवं मनः (भयमानः) भयं प्राप्नुवन्। अत्र व्यत्ययेन शप्। (व्ययेयम्) प्राप्नुयाम् (त्राध्वम्) रक्षत (नः) अस्मान् (देवाः) विद्वांसः (निजुरः) हिंसकस्य (वृकस्य) स्तेनस्य व्याघ्रस्य वा सकाशात् (त्राध्वम्) (कर्त्तात्) कूपात् (अवपदः) यत्राऽवपद्यन्ते ततः (यजत्राः) विदुषां सत्कर्त्तारः ॥५१ ॥