अ॒द्या दे॑वा॒ऽउदि॑ता॒ सूर्य्य॑स्य॒ निरꣳह॑सः पिपृ॒ता निर॑व॒द्यात्। तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वीऽउ॒त द्यौः ॥४२ ॥
अ॒द्य। दे॒वाः॒। उदि॒तेत्युत्ऽइ॑ता। सूर्य्य॑स्य। निः। अꣳह॑सः। पि॒पृ॒त। निः। अ॒व॒द्यात् ॥ तत्। नः॒। मि॒त्रः। वरु॑णः। मा॒म॒ह॒न्ता॒म्। म॒म॒ह॒न्ता॒मिति॑ ममहन्ताम्। अदि॑तिः। सिन्धुः॑। पृ॒थि॒वी। उ॒त। द्यौः ॥४२ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
विद्वान् लोग कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
विद्वांसः कीदृशाः स्युरित्याह ॥
(अद्य) अत्र निपातस्य च [अ०६.३.१३६] इति दीर्घः। (देवाः) विद्वांसः (उदिता) उदिते। अत्राऽऽकारादेशः। (सूर्य्यस्य) सवितुः (निः) नितराम् (अंहसः) अपराधात् (पिपृत) व्याप्नुत। अत्र संहितायाम् [अ०६.३.११४] इति दीर्घः। (निः) नितराम् (अवद्यात्) निन्द्यात् दुःखात् (तत्) तस्मात् (नः) अस्मान् (मित्रः) सुहृत् (वरुणः) श्रेष्ठः (मामहन्ताम्) सत्कुर्वन्तु (अदितिः) अन्तरिक्षम् (सिन्धुः) सागरः (पृथिवी) भूमिः (उत) अपि (द्यौः) प्रकाशः ॥४२ ॥