कुत॒स्त्वमि॑न्द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ऽइ॒त्था। सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ऽअ॒स्मे। म॒हाँ२ऽ इन्द्रो॒ यऽओज॑सा। क॒दा च॒न स्त॒रीर॑सि॒। क॒दा च॒न प्रयु॑च्छसि ॥२७ ॥
कुतः॑। त्वम्। इ॒न्द्र॒। माहि॑नः। सन्। एकः॑। या॒सि॒। स॒त्प॒त॒ इति॑ सत्ऽपते। किम्। ते॒। इ॒त्था ॥ सम्। पृ॒च्छ॒से॒। स॒म॒रा॒ण इति॑ सम्ऽअरा॒णः। शु॒भा॒नैः। वोचेः। तत्। नः॒। ह॒रि॒व॒ इति॑ हरिऽवः। यत्। ते॒। अ॒स्मेऽइत्य॒स्मे ॥२७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(कुतः) कस्मात् (त्वम्) (इन्द्र) सभेश ! (माहिनः) पूज्यमानो महत्त्वेन युक्तः (सन्) (एकः) असहायः (यासि) गच्छसि (सत्पते) सतः सत्यस्य व्यवहारस्य सतां पुरुषाणां वा पालक ! (किम्) (ते) तव (इत्था) अस्माद्धेतोः (सम्) (पृच्छसे) पृच्छ। लेट्। (समराणः) सम्यग् गच्छन् (शुभानैः) मङ्गलमयैर्वचनैस्सह (वोचे) वदेः (तत्) एकाकिकारणम् (नः) अस्मान् (हरिवः) प्रशस्ता हरयो हरणशीला अश्वा विद्यन्ते यस्य तत्सम्बुद्धौ (यत्) यतः (ते) तव (अस्मे) वयम् ॥२७ ॥