म॒होऽअ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑। श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ऽअ॒द्या वृ॑णीमहे ॥१७ ॥
म॒हः। अ॒ग्नेः। स॒मि॒धा॒नस्येति॑ सम्ऽइधा॒नस्य॑। शर्म॑णि। अना॑गाः। मि॒त्रे। वरु॑णे। स्व॒स्तये॑ ॥ श्रेष्ठे॑। स्या॒म॒। स॒वि॒तुः। सवी॑मनि। तत्। दे॒वाना॑म्। अवः॑। अ॒द्य। वृ॒णी॒म॒हे॒ ॥१७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(महः) महतः (अग्नेः) विज्ञानवतः सभापतेः (समिधानस्य) प्रकाशमानस्य (शर्मणि) आश्रये (अनागाः) अनपराधिनः। अत्र सुपां सुलुग् [अ०७.१.३९] इति जसः स्थाने सुः। (मित्रे) सुहृदि (वरुणे) स्वीकर्त्तव्ये जने (स्वस्तये) सुखाय (श्रेष्ठे) उत्तमे (स्याम) भवेम (सवितुः) सकलजगदुत्पादकस्य परमेश्वरस्य (सवीमनि) आज्ञायाम् (तत्) वेदोक्तम् (देवानाम्) विदुषाम् (अवः) रक्षणादिकम् (अद्य) अस्मिन् दिवसे। अत्र निपातस्य च [अ०६.३.१३६] इति दीर्घः। (वृणीमहे) स्वीकुर्महे ॥१७ ॥