त्र्या॒यु॒षं ज॒म॑दग्नेः क॒श्यप॑स्य त्र्यायु॒षम्। यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ऽअस्तु त्र्यायु॒षम् ॥६२॥
त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। ज॒मद॑ग्नेरिति॑ ज॒मत्ऽअ॑ग्नेः। क॒श्यप॑स्य। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। यत्। दे॒वेषु॑। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम्। तत्। नः॒। अ॒स्तु॒। त्र्या॒यु॒षमिति॑ त्रिऽआयु॒षम् ॥६२॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्य को कैसी आयु भोगने के लिये ईश्वर की प्रार्थना करनी चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्येण कीदृशमायुर्भोक्तुमीश्वरः प्रार्थनीय इत्युपदिश्यते ॥
(त्र्यायुषम्) त्रीणि च तान्यायूंषि च त्र्यायुषम्। बाल्ययौवनवृद्धावस्थासुखकरम्। इदं पदम् अचतुरविचतुर० (अष्टा०५.४.७७) इति सूत्रे समासान्तत्वेन निपातितम्। (जमदग्नेः) चक्षुषः। चक्षुर्वै जमदग्निर्ऋषिर्यदनेन जगत्पश्यत्यथो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः (शत०८.१.२.३) जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा तैरभिहुतो भवति (निरु०७.२४)। अनेनापि प्रमाणेन रूपगुणग्राहकं चक्षुर्गृह्यते। (कश्यपस्य) आदित्यस्येश्वरस्य। प्रजापतिः प्रजा असृजत यदसृजताकरोत् तद्यदकरोत् तस्मात् कूर्म्मः। कश्यपो वै कूर्मस्तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति (शत०७.४.१.५) अनेन प्रमाणेनेश्वरस्य कश्यपसंज्ञा। एतन्निर्मितं त्रिगुणमायुर्लभेमहीत्यभिप्रायः। (त्र्यायुषम्) ब्रह्मचर्य्यगृहस्थवानप्रस्थाश्रमसुखसंपादकं त्रिगुणमायुः (यत्) यादृशम् यावत् (देवेषु) विद्वत्सु। विद्वाꣳसो हि देवाः (शत०३.७.३.१०) (त्र्यायुषम्) विद्याशिक्षापरोपकारसहितं त्रिगुणमायुः। (तत्) तादृशं तावत् (नः) अस्माकम्। (अस्तु) भवतु (त्र्यायुषम्) पूर्वोक्तं त्रिगुणमायुः। अत्र एतेर्णिच्च (उणा०२.११८) अनेनेण् धातोरुसिः प्रत्ययो णिद्वत्त्वाद् वृद्धिः। ईयते प्राप्यते यत्तदायुः। अयं मन्त्रः (शत०२.५.४.१-७) व्याख्यातः ॥६२॥