अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम्। यथा॑ नो॒ वस्य॑स॒स्कर॒द् यथा॑ नः॒ श्रेय॑स॒स्कर॒द् यथा॑ नो व्यवसा॒यया॑त् ॥५८॥
अव॑। रु॒द्रम्। अ॒दी॒म॒हि॒। अव॑। दे॒वम्। त्र्य॑म्बक॒मिति॒ त्रिऽअ॑म्बकम्। यथा॑। नः॒। वस्य॑सः। कर॑त्। यथा॑। नः॒। श्रेय॑सः। कर॑त्। यथा॑। नः॒। व्य॒व॒सा॒यया॒दिति॑ विऽअवसा॒यया॑त् ॥५८॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में रुद्र शब्द से ईश्वर का उपदेश किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ रुद्रशब्देनेश्वर उपदिश्यते ॥
(अव) विनिग्रहार्थे (रुद्रम्) दुष्टानां रोदयितारं परमेश्वरम् (अदीमहि) सर्वाणि दुःखानि क्षाययेम नाशयेम। अत्र दीङ् क्षय इत्यस्माल्लिङर्थे लङ्। बहुलं छन्दसि [अष्टा०२.४.७३] इति श्यनो लुक्। (अव) अवगमार्थे (देवम्) दातारम् (त्र्यम्बकम्) अमति येन ज्ञानेन तदम्बं त्रिषु कालेष्वेकरसं ज्ञानं यस्य तम्। अत्र अम गत्यादिष्वस्माद् बाहुलकेन करणकारके वः प्रत्ययस्ततः शेषाद्विभाषा (अष्टा०५.४.१५४) इति समासान्तः कप् प्रत्ययः। (यथा) येन प्रकारेण (नः) अस्मान् (वस्यसः) येऽतिशयेन वसन्ति ते वसीयांसस्तान्। अत्र छान्दसो वर्णलोपो वा [अष्टा०भा०वा०८.२.२५] इतीकारलोपः। (करत्) कुर्य्यात्, अयं लेट् प्रयोगः। डुकृञ् करण इत्यस्य भ्वादिगणान्तर्गतपठितत्वाच्छब्विकरणोऽत्र गृह्यते। तनादिभिः सह पाठादुविकरणोऽपि। कःकरत्करतिकृधिकृतेष्वनदितेः (अष्टा०८.३.५०) नित्यं करोतेः (अष्टा०६.४.१०८) एताभ्यां द्वाभ्यां ज्ञापकाभ्यामप्युभयगणप्रयोगः कृञ् गृह्यते। (यथा) (नः) अस्मान् (श्रेयसः) अतिशयेन प्रशस्तान् (करत्) कुर्य्यात् अत्रापि लेट् (यथा) (नः) अस्मान् (व्यवसाययात्) निश्चयवतः कुर्य्यात्। अयं व्यवपूर्वात् षोऽन्तकर्मणीति एजन्ताद्धातोः प्रथमपुरुषैकवचने तिपि लेट् प्रयोगः। अयं मन्त्रः (शत०२.६.२.११) व्याख्यातः ॥५८॥