हिन्दी - स्वामी दयानन्द सरस्वती
मन के लक्षण कहने के अनन्तर प्राण के लक्षण का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ मनलक्षणकथनानन्तरं प्राणलक्षणमुपदिश्यते ॥
(एषः) प्रत्यक्षः (ते) तवास्य वा (रुद्र) रोदयत्यन्यायकारिणो जनान् स रुद्रः स्तोता तत्सम्बुद्धौ। रुद्र इति स्तोतृनामसु पठितम्। (निघं०३.१६)। रुद्र इत्येतस्य त्रयस्त्रिंशद्देवव्याख्याने प्राणसंज्ञेत्युक्तम्। रुद्र रौतीति सतो रोरूयमाणो द्रवतीति वा, रोदयतेर्वा, यदरुदत्तद्रुद्रस्य रुद्रत्वमिति काठकम्, यदरोदीत् तद्रुद्रस्य रुद्रत्वमिति हारिद्रविकम् (निरु०१०.५)। रोदेर्णिलुक् च (उणा०२.२२) अनेन रुद्रशब्दः सिद्धः। (भागः) सेवनीयः (सह) सङ्गे (स्वस्रा) सुष्ठ्वस्यति प्रक्षिपति यया विद्यया क्रियया वा तया। सावसेर्ऋन् (उणा०२.९६) अनेन स्वसृशब्दः सिध्यति। (अम्बिकया) अम्बते शब्दयति यया तया (तम्) भागम् (जुषस्व) सेवस्व सेवते वा। अत्र पक्षे व्यत्ययो लडर्थे लोट् च। (स्वाहा) शोभनं देयमादेयमाह यया सा (एषः) वक्ष्यमाणः (ते) तवास्य वा (रुद्र) उक्तार्थः (भागः) भजनीयः (आखुः) समन्तात् खनत्यवदृणाति येन भोजनसाधनेन सः। अत्र आङ्परयोः खतिशॄभ्यां डिच्च (उणा०१.३३) इति कुप्रत्ययो डित्संज्ञा च। (पशुः) यो दृश्यते भोग्यपदार्थसमूहः समक्षे स्थापितः सः। अत्र अजिदृशिकमिः (उणा०१.२७) इत्यौणादिकसूत्रेणास्य सिद्धिः। अयं मन्त्रः (शत०२.६.२.९-१०) व्याख्यातः ॥५७॥