क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑। उपो॒पेन्नु म॑घव॒न् भूय॒ऽइन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥३४॥
क॒दा। च॒न। स्त॒रीः। अ॒सि॒। न। इ॒न्द्र॒। स॒श्च॒सि॒। दा॒शुषे॑। उपो॒पेत्युप॑ऽउप। इत्। नु। म॒घ॒व॒न्निति॑ मघऽवन्। भूयः॑। इत्। नु। ते॒। दान॑म्। दे॒वस्य॑। पृ॒च्य॒ते॒ ॥३४॥
हिन्दी - स्वामी दयानन्द सरस्वती
वह इन्द्र कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
स इन्द्रः कीदृश इत्युपदिश्यते ॥
(कदा) कस्मिन् काले (चन) आकाङ्क्षायाम् (स्तरीः) यः सुखैः स्तृणात्याच्छादयति सः। अत्र अवितॄ० (उणा०३.१५८) इति ईः प्रत्ययः। (असि) भवसि (न) निषेधार्थे (इन्द्र) सुखप्रदेश्वर (सश्चसि) जानासि प्रापयसि वा। सश्चतीति गतिकर्मसु पठितम्। (निघं०२.१४) (दाशुषे) विद्यादिदानकर्त्रे (उपोप) सामीप्ये (इत्) एति जानात्यनेन तद्विज्ञानम् (नु) क्षिप्रम्। न्विति क्षिप्रनामसु पठितम्। (निघं०२.१५) (मघवन्) परमधनवन् (भूयः) पुनः (इत्) एव (नु) क्षिप्रे (ते) तव (दानम्) दीयमानम् (देवस्य) कर्मफलप्रदातुः (पृच्यते) संबध्यते। अयं मन्त्रः (शत०२.३.४.३८) व्याख्यातः ॥३४॥