तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ऽअघाय॒तः स॑मस्मात् ॥२६॥
तम्। त्वा॒। शो॒चि॒ष्ठ। दी॒दि॒व॒ इति॑ दीदिऽवः। सु॒म्नाय॑। नू॒नम्। ई॒म॒हे॒। सखि॑भ्य॒ इति॒ सखि॑ऽभ्यः। सः। नः॒। बो॒धि॒। श्रु॒धि। हव॑म्। उ॒रु॒ष्य। नः॒। अ॒घा॒य॒त इत्य॑घऽयतः। स॒म॒स्मा॒त् ॥२६॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
(तम्) जगदीश्वरम् (त्वा) त्वाम् (शोचिष्ठ) पवित्रतम (दीदिवः) प्रकाशमयानन्दप्रद। अत्र दिवुधातोश्छन्दसि लिट् [अष्टा०३.२.१०५] इति लिट्। क्वसुश्च [अष्टा०३.२.१०७] इति लिटः स्थाने क्वसुः। छन्दस्युभयथा [अष्टा०३.४.११७] इति लिडादेशस्य क्वसोः सार्वधातुकत्वादिडभावः। तुजादीनां दीर्घोऽभ्यासस्य [अष्टा०६.१.७] इत्यभ्यासदीर्घः। मतुवसो रुः सम्बुद्धौ छन्दसि [अष्टा०८.३.१] इति रुरादेशश्च। (सुम्नाय) सुखाय। सुम्नमिति सुखनामसु पठितम्। (निघं०३.९) (नूनम्) निश्चयार्थे (ईमहे) याचामहे। ईमह इति याच्ञाकर्मसु। (निघं०३.१९) (सखिभ्यः) मित्रेभ्यः (सः) जगदीश्वरः (नः) अस्मानस्माकं वा (बोधि) बोधयति। अत्र लडर्थे लुङ् बहुलं छन्दसि [अष्टा०६.४.७३] इत्यडभावोऽन्तर्गतो ण्यर्थश्च। (श्रुधि) शृणु। अत्र द्व्यचोऽतस्तिङः [अष्टा०६.३.१३५] इति दीर्घः। बहुलं छन्दसि [अष्टा०२.४.७३] इति श्नोर्लुक्। श्रुशृणु० [अष्टा०६.४.१०२] इति हेर्ध्यादेशश्च। (हवम्) श्रोतुं श्रावयितुमर्हं स्तुतिसमूहं यज्ञम् (उरुष्य) रक्ष। अत्र कण्ड्वादि [अष्टा०३.१.२७] आकृतिगणत्वादुरुषशब्दाद् यक्, ततोऽन्येषामपि० [अष्टा०६.३.१३७] इति दीर्घः। (नः) अस्मान्। अत्र। नश्च धातुस्थोरुषुभ्यः। (अष्टा०८.४.२६) इति णकारादेशः। (अघायतः) यः परस्याघमिच्छत्यघायति ततः। आचार्यप्रवृत्तिर्ज्ञापयति भवत्यघशब्दाच्छन्दसि परेच्छायां क्यजिति, यदयमश्वाघस्यादिति क्यचि प्रकृत ईत्वबाधनार्थमाकारं शास्ति (अष्टा०३.१.८) अस्मिन् सूत्रे भाष्यकारस्य व्याख्यानाशयेनेदं सिद्ध्यतीति बोध्यम्। (समस्मात्) सर्वस्मात्। समशब्दोऽत्र सर्वपर्यायः। अयं मन्त्रः (शत०२.३.४.३१-३३) व्याख्यातः ॥२६॥