त॒नू॒पाऽअ॑ग्नेऽसि त॒न्वं᳖ मे पाह्यायु॑र्दाऽअ॑ग्ने॒ऽस्यायु॑र्मे देहि वर्चो॒दाऽअ॑ग्नेऽसि॒ वर्चो॑ मे देहि। अग्ने॒ यन्मे॑ त॒न्वा᳖ऽऊ॒नं तन्म॒ऽआपृ॑ण ॥१७॥
त॒नू॒पा इति॑ तनू॒ऽपाः। अ॒ग्ने॒। अ॒सि॒। त॒न्व᳖म्। मे॒। पा॒हि॒। आ॒यु॒र्दा इत्यायुः॒दाः। अ॒ग्ने॒। अ॒सि॒। आयुः॑। मे॒। दे॒हि॒। व॒र्च्चो॒दा इति॑ वर्च्चः॒ऽदाः। अ॒ग्ने॒। अ॒सि॒। वर्च्चः॑। मे॒। दे॒हि॒। अग्ने॑। यत्। मे॒। त॒न्वाः᳖ ऊ॒नम्। तत्। मे॒। आ। पृ॒ण॒ ॥१७॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब ईश्वर और भौतिक अग्नि क्या करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है।
संस्कृत - स्वामी दयानन्द सरस्वती
अथैश्वरभौतिकौ किं कुरुत इत्युपदिश्यते ॥
(तनूपाः) यस्तनूः सर्वपदार्थदेहान् पाति रक्षति स जगदीश्वरः, पालनहेतुर्भौतिको वा। (अग्ने) सर्वाभिरक्षकेश्वर, रक्षाहेतुर्भौतिको वा। (असि) अस्ति वा। अत्र सर्वत्र पक्षे व्यत्ययः। (तन्वम्) शरीरम्। अत्र वाच्छन्दसि [अष्टा०६.१.१०६] इत्यमि पूर्व इत्यत्रानुवर्तनात् पूर्वरूपादेशो न भवति। (मे) मम (पाहि) पाति वा (आयुर्दाः) आयुःप्रदः (असि) भवति वा (आयुः) जीवनम् (मे) मह्यम् (देहि) ददाति वा (वर्च्चोदाः) यो वर्च्चो विज्ञानं ददातीति तत्प्राप्तिहेतुर्वा (अग्ने) सर्वविद्यामयेश्वर विद्याहेतुर्वा (असि) भवति वा (वर्च्चः) विद्याप्राप्तिं दीप्तिं वा (मे) मह्यम् (देहि) ददाति वा (अग्ने) कामानां प्रपूरकेश्वर, कामपूर्तिहेतुर्वा (यत्) यावद्यस्माद्वा (मे) मम (तन्वाः) अन्तःकरणाख्यस्य बाह्यस्य शरीरस्य वा (ऊनम्) अपर्याप्तम् (तत्) तावत् तस्माद्वा (मे) मम (आ) समन्तात् (पृण) पूरयति वा। अयं मन्त्रः (शत०२.३.४.१९-२०) व्याख्यातः ॥१७॥