वांछित मन्त्र चुनें

स्वा॒दु॒ष॒ꣳ सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्तीं॑वन्तो गभी॒राः। चि॒त्रसे॑ना॒ऽइषु॑बला॒ऽअमृ॑ध्राः स॒तोवी॑राऽउ॒रवो॑ व्रातसा॒हाः ॥४६ ॥

मन्त्र उच्चारण
पद पाठ

स्वा॒दु॒ष॒ꣳसदः॑। स्वा॒दु॒स॒ꣳसद इति॑ स्वादुऽस॒ꣳसदः॑। पि॒तरः॑। व॒यो॒धा इति॑ वयः॒ऽधाः। कृ॒च्छ्रे॒श्रित॒ इति॑ कृच्छ्रे॒ऽश्रितः॑। शक्ती॑वन्तः॒। शक्ति॑वन्त॒ इति॒ शक्ति॑ऽवन्तः। ग॒भी॒राः। चि॒त्रसे॑ना॒ इति॑ चि॒त्रऽसे॑नाः। इषु॑बला॒ इतीषु॑ऽबलाः। अमृ॑ध्राः। स॒तोवी॑रा॒ इति॑ स॒तःऽवी॑राः। उ॒रवः॑। व्रा॒त॒सा॒हाः। व्रा॒त॒स॒हा इति॑ व्रातऽस॒हाः ॥४६ ॥

यजुर्वेद » अध्याय:29» मन्त्र:46


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे युद्ध करने हारे वीर पुरुषो ! तुम लोग जो (स्वादुषंसदः) भोजन के योग्य अन्नादि पदार्थों को सम्यक् सेवनेवाले (वयोधाः) अधिक अवस्था युक्त (कृच्छ्रेश्रितः) उत्तम कार्यों की सिद्धि के लिए कष्ट सेवते हुए (शक्तीवन्तः) सामर्थ्यवाले (गभीराः) महाशय (चित्रसेनाः) आश्चर्य गुण युक्त सेनावाले (इषुबलाः) शस्त्र-अस्त्रों के सहित जिनकी सेना (अमृध्राः) दृढ़ शरीरवाले (उरवः) बड़े-बड़े जिन के जङ्घा और छाती (व्रातसाहाः) वीरों के समूहों को सहनेवाले (सतोवीराः) विद्यमान सेना के बीच युद्धविद्या की शिक्षा को प्राप्त और (पितरः) पालन करनेहारे राजपुरुष हों, उन का आश्रय ले युद्ध करो ॥४६ ॥
भावार्थभाषाः - उन्हीं का सदा विजय, राज्य, श्री, प्रतिष्ठा, बड़ी अवस्था, बल और विद्या होती है, जो अपने अधिष्ठाता, आप्त, सत्यवादी सज्जनों की शिक्षा में स्थित होते हैं ॥४६ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(स्वादुषꣳसदः) ये स्वादुषु भोज्याद्यन्नेषु सम्यक् सीदन्ति ते (पितरः) पालनक्षमाः (वयोधाः) ये दीर्घं वयो जीवनं दधति ते (कृच्छ्रेश्रितः) ये कृच्छ्रे कष्टे श्रितः कष्टं सेवमानाः (शक्तीवन्तः) सामर्थ्ययुक्ताः। अत्र छन्दसीरः [अ०८.२.१५] इति वत्वम्। (गभीराः) अगाधाशयाः (चित्रसेनाः) अद्भुतसैन्याः (इषुबलाः) इषुभिः शस्त्रास्त्रैस्सह बलं सैन्यं येषान्ते (अमृध्राः) अकोमलाङ्गा दृढाङ्गाः (सतोवीराः) सतो विद्यमानस्य सैन्यस्य मध्ये वीराः प्राप्तयुद्धविद्याशिक्षाः (उरवः) विशालजघनोरस्काः (व्रातसाहाः) ये व्रातान् वीराणां समूहान् सहन्ते ते ॥४६ ॥

पदार्थान्वयभाषाः - हे योद्धारो वीरा ! यूयं ये स्वादुषंसदो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराश्चित्रसेना इषुबला अमृध्रा उरवो व्रातसाहाः सतोवीराः पितरः स्युस्तानाश्रित्य युद्धं कुरुत ॥४६ ॥
भावार्थभाषाः - तेषामेव सदा विजयो राज्यश्रीः प्रतिष्ठा दीर्घमायुर्बलं विद्याश्च भवन्ति, ये स्वाधिष्ठातॄणामाप्तानां शासने तिष्ठन्ति ॥४६ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे वीरपुरुष, अधिष्ठाते, आप्त, सत्यवादी सज्जनाकडून शिक्षण घेतात त्यांचा नेहमी विजय होतो व त्यांना राज्य, श्री, प्रतिष्ठा, मानसन्मान, बल आणि विद्या प्राप्त होते.