तनू॑नपात् प॒थऽऋ॒तस्य॒ याना॒न् मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व। मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥२६ ॥
तनू॑नपा॒दिति॒ तनू॑ऽनपात्। प॒थः। ऋ॒तस्य॑। याना॑न्। मध्वा॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। स्व॒द॒य॒। सु॒जि॒ह्वेति॑ सुऽजिह्व। मन्मा॑नि। धी॒भिः। उ॒त। य॒ज्ञम्। ऋ॒न्धन्। दे॒व॒त्रेति॑ देव॒ऽत्रा। च॒। कृ॒णु॒हि॒। अ॒ध्व॒रम्। नः॒ ॥२६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(तनूनपात्) यस्तनूर्विस्तृतान् पदार्थान् न पातयति तत्सम्बुद्धौ (पथः) (ऋतस्य) सत्यस्य जलस्य वा (यानान्) याति येषु तान् (मध्वा) माधुर्येण (समञ्जन्) सम्यक् प्रकटीकुर्वन् (स्वदय) आस्वादय। अत्र संहितायाम् [अ०६.३.११४] इति दीर्घः। (सुजिह्व) शोभना जिह्वा वाग्वा यस्य तत्सम्बुद्धौ (मन्मानि) यानानि (धीभिः) प्रज्ञाभिः कर्मभिर्वा (उत) अपि (यज्ञम्) सङ्गमनीयं व्यवहारम् (ऋन्धन्) संसाधयन् (देवत्रा) देवेषु विद्वत्सु स्थित्वा (च) (कृणुहि) कुरु (अध्वरम्) अहिंसनीयम् (नः) अस्माकम् ॥२६ ॥