हिर॑ण्यशृ॒ङ्गोऽयो॑ऽअस्य॒ पादा॒ मनो॑जवा॒ऽअव॑र॒ऽइन्द्र॑ऽआसीत्। दे॒वाऽइद॑स्य हवि॒रद्यमाय॒न्योऽअर्व॑न्तं प्रथ॒मोऽअ॒ध्यति॑ष्ठत् ॥२० ॥
हिर॑ण्यशृङ्ग॒ इति॒ हिर॑ण्यऽशृङ्गः। अयः॑। अ॒स्य॒। पादाः॑। मनो॑जवा॒ इति॒ मनः॑ऽजवाः। अव॑रः। इन्द्रः॑। आ॒सी॒त्। दे॒वाः। इत्। अ॒स्य॒। ह॒वि॒रद्य॒मिति॑ हविः॒ऽअद्य॑म्। आ॒य॒न्। यः। अर्व॑न्तम्। प्र॒थ॒मः। अ॒ध्यति॑ष्ठदित्यधि॒ऽअति॑ष्ठत् ॥२० ॥
हिन्दी - स्वामी दयानन्द सरस्वती
मनुष्यों को अग्न्यादि पदार्थों के गुण ज्ञान से क्या सिद्ध करना चाहिए, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
मनुष्यैरग्न्यादिपदार्थगुणविज्ञानेन किं साध्यमित्याह ॥
(हिरण्यशृङ्गः) हिरण्यानि तेजांसि शृङ्गाणीव यस्य स (अयः) सुवर्णम्। अय इति हिरण्यनामसु पठितम् ॥ (निघ०१.२) (अस्य) (पादाः) पद्यन्ते गच्छन्ति यैस्ते (मनोजवाः) मनसो जवो वेग इव जवो वेगो येषान्ते (अवरः) नवीनः (इन्द्रः) परमैश्वर्यहेतुविद्युदिव सभेशः (आसीत्) भवेत् (देवाः) विद्वांसः सभासदः (इत्) एव (अस्य) (हविरद्यम्) दातुमर्हमत्तुं योग्यं च (आयन्) प्राप्नुयुः (यः) (अर्वन्तम्) अश्ववत् प्राप्नुवन्तं वह्निम् (प्रथमः) आदिमः (अध्यतिष्ठत्) उपरि तिष्ठेत् ॥२० ॥