त्रीणि॑ तऽआहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे। उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न् यत्रा॑ तऽआ॒हुः प॑र॒मं ज॒नित्र॑म् ॥१५ ॥
त्रीणि॑। ते॒। आ॒हुः॒। दि॒वि। बन्ध॑नानि। त्रीणि॑। अ॒प्स्वित्य॒प्ऽसु। त्रीणि॑। अ॒न्तरित्य॒न्तः। स॒मु॒द्रे। उ॒तेवेत्यु॒तऽइ॑व। मे॒। वरु॑णः। छ॒न्त्सि॒। अ॒र्व॒न्। यत्र॑। ते॒। आ॒हुः। प॒र॒मम्। ज॒नित्र॑म् ॥१५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(त्रीणि) (ते) तव (आहुः) कथयन्ति (दिवि) विद्याप्रकाशे (बन्धनानि) (त्रीणि) (अप्सु) प्राणेषु (त्रीणि) (अन्तः) मध्ये (समुद्रे) अन्तरिक्षे (उतेव) यथोत्प्रेक्षणम् (मे) मम (वरुणः) श्रेष्ठः (छन्त्सि) अर्चसि। छन्दतीत्यर्चतिकर्मा० ॥ (निघ०३.१४) (अर्वन्) विज्ञानयुक्त (यत्र) यस्मिन् जन्मनि (ते) तव। अत्र ऋचि तुनुघ० [अ०६.३.१३३] इति दीर्घः। (आहुः) (परमम्) प्रकृष्टम् (जनित्रम्) ॥१५ ॥