दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्र॑मवर्धयत्। स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम॒न्या ब॒र्हीष्य॒भ्य᳖भूद् वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥२१ ॥
दे॒वम्। ब॒र्हिः। वारि॑तीनाम्। दे॒वम्। इन्द्र॑म्। अ॒व॒र्द्ध॒य॒त्। स्वा॒स॒स्थमिति॑ सुऽआस॒स्थम्। इन्द्रे॑ण। आस॑न्न॒मित्याऽस॑न्नम्। अ॒न्या। ब॒र्हीषि॑। अ॒भि। अ॒भूत्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥२१ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(देवम्) दिव्यम् (बर्हिः) अन्तरिक्षम् (वारितीनाम्) वरणीयानां पदार्थानां मध्ये (देवम्) दिव्यगुणम् (इन्द्रम्) विद्युतम् (अवर्धयत्) वर्धयति (स्वासस्थम्) सुष्ठ्वासते यस्मिँस्तम् (इन्द्रेण) ईश्वरेण (आसन्नम्) समीपस्थम् (अन्या) अन्यानि (बर्हींषि) अन्तरिक्षावयवाः (अभि) अभितः (अभूत्) भवेत् (वसुवने) पदार्थविद्यायाचिने (वसुधेयस्य) सर्वद्रव्याधारस्य जगतो मध्ये (वेतु) (यज) ॥२१ ॥