दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्र॑मवर्द्धताम्। ह॒ताघ॑शꣳसा॒वाभा॑र्ष्टां॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒तौ व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥१७ ॥
दे॒वा। दैव्या॑। होता॑रा। दे॒वम्। इन्द्र॑म्। अ॒व॒र्द्ध॒ता॒म्। ह॒ताघ॑शꣳसा॒विति॑ ह॒तऽअ॑घशꣳसौ। आ। अ॒भा॒र्ष्टा॒म्। वसु॑। वार्या॑णि। यज॑मानाय। शि॒क्षि॒तौ। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वी॒ता॒म्। यज॑ ॥१७ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(देवा) सुखप्रदातारौ (दैव्या) देवेषु दिव्येषु गुणेषु भवौ (होतारा) धर्त्तारौ वायुपावकौ (देवम्) दिव्यगुणम् (इन्द्रम्) सूर्यम् (अवर्द्धताम्) वर्धयताम् (हताघशंसौ) हता अघशंसाः स्तेना याभ्यान्तौ (आ) (अभार्ष्टाम्) दहताम् (वसु) धनम् (वार्याणि) वर्त्तुमर्हाण्युदकानि (यजमानाय) (शिक्षितौ) विज्ञापितौ (वसुवने) (वसुधेयस्य) (वीताम्) व्याप्नुताम् (यज) ॥१७ ॥