इ॒हैवाग्ने॒ऽ अधि॑ धारया र॒यिं मा त्वा॒ निक्र॑न् पूर्व॒चितो॑ निका॒रिणः॑। क्ष॒त्रम॑ग्ने सुयम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्द्धतां ते॒ऽअनि॑ष्टृतः ॥४ ॥
इ॒ह। ए॒व। अ॒ग्ने॒। अधि॑। धा॒र॒य॒। र॒यिम्। मा। त्वा॒। नि। क्र॒न्। पू॒र्व॒चित॒ इति॑ पूर्व॒ऽचितः॑। नि॒का॒रिण॒ इति॑ निऽका॒रिणः॑ ॥ क्ष॒त्रम्। अ॒ग्ने॒। सु॒यम॒मिति॑ सु॒ऽयम॑म्। अ॒स्तु॒। तुभ्य॑म्। उ॒प॒स॒त्तेत्यु॑पऽस॒त्ता। व॒र्द्ध॒ता॒म्। ते॒। अनि॑ष्टृतः। अनि॑स्तृत॒ इत्यनि॑ऽस्तृतः ॥४ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब राजधर्म विषय अगले मन्त्र में कहते हैं ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ राजधर्मविषयमाह ॥
(इह) अस्मिन् संसारे (एव) (अग्ने) विद्युद्वद्वर्त्तमान (अधि) उपरिभावे (धारय) अत्र संहितायाम् [अ०६.३.११४] इति दीर्घः। (रयिम्) श्रियम् (मा) (त्वा) त्वाम् (नि) नीचैः (क्रन्) कुर्युः (पूर्वचितः) पूर्वैः प्राप्तविज्ञानादिभिर्वृद्धाः (निकारिणः) नितरां कर्तुं स्वभावाः (क्षत्रम्) धनं राज्यं वा (अग्ने) विनयप्रकाशित (सुयमम्) सुष्ठु यमा यस्मात् तत् (अस्तु) (तुभ्यम्) (उपसत्ता) उपसीदन् (वर्द्धताम्) (ते) तव (अनिष्टृतः) अनुपहिंसितः ॥४ ॥