एक॑या च द॒शभि॑श्च स्वभूते॒ द्वाभ्या॑मि॒ष्टये॑ विꣳश॒ती च॑। ति॒सृभि॑श्च॒ वह॑से त्रि॒ꣳशता॑ च नि॒युद्भि॑र्वायवि॒ह ता वि मु॑ञ्च ॥३३ ॥
एक॑या। च॒। द॒शभि॒रिति॑ द॒शऽभिः॑। च॒। स्व॒भू॒त॒ऽइति॑ स्वऽभूते। द्वाभ्या॑म्। इ॒ष्टये॑। वि॒ꣳश॒ती। च॒। ति॒सृभि॒रिति॑ ति॒सृऽभिः॑। च॒। वह॑से। त्रि॒ꣳशता॑। च॒। नि॒युद्भि॒रिति॑ नि॒युत्ऽभिः॑। वा॒यो॒ इति॑ वायो। इ॒ह। ता। वि। मु॒ञ्च॒ ॥३३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(एकया) गत्या (च) (दशभिः) दशविधाभिर्गतिभिः (च) (स्वभूते) स्वकीयैश्वर्ये (द्वाभ्याम्) विद्यापुरुषार्थाभ्याम् (इष्टये) विद्यासङ्गतये (विंशती) चत्वारिंशत् (च) (तिसृभिः) (च) (वहसे) प्राप्नोषि (त्रिंशता) एतत्संख्याकैः (च) (नियुद्भिः) (वायो) (इह) (ता) तानि (वि, मुञ्च) विशेषेण त्यज ॥३३ ॥