यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द् दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम्। यो दे॒वेष्वधि॑ दे॒वऽ एक॒ऽ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥२६ ॥
यः। चि॒त्। आपः॑। म॒हि॒ना। प॒र्यप॑श्य॒दिति॑ परि॒ऽअप॑श्यत्। दक्ष॑म्। दधा॑नाः। ज॒नय॑न्तीः। य॒ज्ञम्। यः। दे॒वेषु॑। अधि॑। दे॒वः। एकः॑। आसी॑त्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥२६ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
कौन मनुष्य आनन्दित होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
के जना मोदन्त इत्याह ॥
(यः) परमेश्वरः (चित्) (आपः) व्याप्तिशीलाः सूक्ष्मास्तन्मात्राः (महिना) स्वस्य महिम्ना व्यापकत्वेन (पर्यपश्यत्) सर्वतः पश्यति (दक्षम्) बलम् (दधानाः) धरन्त्यः (जनयन्तीः) उत्पादयन्त्यः (यज्ञम्) सङ्गतं संसारम् (यः) (देवेषु) प्रकृत्यादिजीवेषु (अधि) उपरिभावे (देवः) दिव्यगुणकर्मस्वभावः (एकः) अद्वितीयः (आसीत्) अस्ति (कस्मै) सुखस्वरूपाय (देवाय) सर्वसुखप्रदाय (हविषा) तदाज्ञायोगाभ्यासधारणेन (विधेम) सेवेमहि ॥२६ ॥