आपो॑ ह॒ यद् बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम्। ततो॑ दे॒वाना॒ सम॑वर्त्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥२५ ॥
आपः॑। ह॒। यत्। बृ॒ह॒तीः। विश्व॑म्। आय॑न्। गर्भ॑म्। दधा॑नाः। ज॒नय॑न्तीः। अ॒ग्निम्। ततः॑। दे॒वाना॑म्। सम्। अ॒व॒र्त्त॒त॒। असुः॑। एकः॑। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥२५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
(आपः) व्यापिकास्तन्मात्राः (ह) खलु (यत्) यम् (बृहतीः) बृहत्यः (विश्वम्) कृतप्रवेशम् (आयन्) गच्छन्ति (गर्भम्) मूलं प्रधानम् (दधानाः) धरन्त्यः सत्यः (जनयन्तीः) प्रकटयन्त्यः (अग्निम्) सूर्याद्याख्यम् (ततः) तस्मात् (देवानाम्) दिव्यानां पृथिव्यादीनाम् (सम्) सम्यक् (अवर्तत) वर्तये (असुः) प्राणः (एकः) असहायः (कस्मै) सुखनिमित्ताय (देवाय) दिव्यगुणाय (हविषा) धारणेन (विधेम) परिचरेम ॥२५ ॥