यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ यऽआ॒मस्य॑ क्र॒विषो॑ ग॒न्धोऽअस्ति॑। सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेध॑ꣳ शृत॒पाकं॑ पचन्तु ॥३३ ॥
यत्। ऊव॑ध्यम्। उ॒दर॑स्य। अ॒प॒वातीत्य॑प॒ऽवाति॑। यः। आ॒मस्य॑। क्र॒विषः॑। ग॒न्धः। अस्ति॑। सु॒कृ॒तेति॑ सुऽकृ॒ता। तत्। श॒मि॒तारः॑। कृ॒ण्व॒न्तु॒। उ॒त। मेध॑म्। शृ॒त॒पाक॒मिति॑ शृत॒ऽपाक॑म्। प॒च॒न्तु॒ ॥३३ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर कौन किसलिये क्या न करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनः के किमर्थं किं न कुर्युरित्याह ॥
(यत्) (ऊवध्यम्) मलीनम् (उदरस्य) उदरस्य सकाशात् (अपवाति) अपगच्छति (यः) (आमस्य) अपरिपक्वस्य (क्रविषः) भक्षितस्य (गन्धः) (अस्ति) (सुकृता) सुकृतं सुष्ठु संस्कृतम्। अत्राकारादेशः (तत्) (शमितारः) शान्तिकराः (कृण्वन्तु) कुर्वन्तु (उत) अपि (मेधम्) पवित्रम् (शृतपाकम्) शृतः पक्वः पाको यस्य तत् (पचन्तु) ॥३३ ॥